________________
२४
श्री कथारत्नाकरे
श्री हेमविजयरचिते तत्रागतः करको नाम कोऽपि तस्करस्तत्सर्वं शृण्वन् शीलवतीरूपलुब्धश्चिन्तितवान् अहो यदि सधनामेनां धियाहमादास्ये तदा वरम् । अथ वसन्तपुरे प्राप्तस्य मन्मथस्य पार्श्वात्तत्स्वभावरुचिरूपवर्णव्यवसायादिकमधिगम्य स चौरः कतिचिदहोभिः कूटलेखमादाय गुणसागरगृहमगात् । कथितवांश्च हे श्रेष्ठिन्नहं मन्मथस्यानुचरोऽस्मि तेन चायं लेखः प्रेषितोऽस्ति, स्वपत्नी चाहूतास्तीति प्रोच्य रहसि पर्यङ्काधो निधिरस्तीत्यभिज्ञानपूर्वकं शीलवतीमूचे, 'हे भद्रे ! सर्वं निध्यादिकमादाय त्वं प्रेयसाकारितासि' । अथ पुत्रवर्णसवर्णलेखात्तत्सर्वं सत्यं मन्वानेन तत्पित्रा प्रहितां रत्नादिनिधियुतां करभारूढां तां लात्वा रात्रावन्यस्मिन् पथि चलन्तं तस्करं सावादीत्, 'वसन्तपुरं तूत्तरस्यां दिश्यस्ति, असौ च पन्था याम्यायां दिशि याति, तेन नैष तन्मार्गः ' । ' भद्रे ! प्राध्वरेऽध्वनि चौरभीतिरस्ति, तेन तद्वर्त्मपरावर्त्तं विधाय तत्र यास्यामी 'ति ब्रुवाणे चौरे प्रातरभूत्।
अथ करभात्तामुत्तार्य चौरोऽवोचत् हे सुन्दरि ! नाहं तव पत्युरनुचरः, किन्तु चौरोऽस्मि, तेन त्वां हृत्वा स्वपल्लीं यास्यामीत्याकर्ण्य शीलरक्षादक्षा सावादीत्, हे सुभग ! धनस्त्रीलुब्धः पल्लीशस्त्वां निहत्य मामिदं च धनमादास्यति तेन व्रजान्यत्र क्वापि वरे पुरे, यत्र स्वैरं सुखमनुभवाव इति तया प्रेरितोऽयं राजगृहमाययौ । सापि नगर श्रेष्ठिमिषात्स्वपितरं लक्ष्मीसागरं पृच्छन्ती करभारूढा प्रतोलीमागता । सोदरैः पित्रा च पृष्टा त्वं श्वसुरालयादनाकारिता चैकाकिनी किमागतेति चकितैस्तैरालिङ्गन्य सौधान्तर्नीता सावोचत् हे 'तात ! करभस्थां द्रव्यगोणीमादाय बहिःस्थो मदनुचरोऽन्नादिना सन्तोष्य विसृज्यताम्' मुषितोऽहमनयेति वीक्षापन्ने तस्मिन् गते सा यथाजातं स्वोदन्तमभिधाय स्वप्रेयांसं मनसि स्मरन्ती सुखेन पितृगृहे स्थिता ।
अथ मन्मथोऽपि गृहागतोऽवगतस्वप्रियावृत्तान्तः पितरावनापृच्छ्य तया विना किं प्राणैरित्युद्विग्नः क्रकचमोचनाय गङ्गामागतः, तत्स्वामिना विलम्बय षण्मासमित्युक्त्वा स रक्षितस्तत्र तस्थौ । इतस्तथैव तत्रागतेन चौरेण स्वदुःखनिदाने कथिते स दध्यावहो मम स्त्रियोऽपि मतिर्यया शीलं वित्तं च रक्षितम् । ततो गङ्गास्वामिने स्ववृत्तान्तं निवेद्य चौरेण युतोऽसौ राजगृहमागतः, ततोऽसौ धनादिना तं चौरं सन्मान्य विसर्प्य च स्वप्रियामादाय स्वपुरमाययौ, स्नुषामतिमुदितौ स्वपितरौ च प्रमोद्याराधितधर्मः स सद्गतिमाससाद ॥ इति बुद्धिविषये शीलवतीकथा ॥ १६ ॥
॥ १७ ॥ कलहकौशले पुण्यसार श्रेष्ठिस्नुषाकथा ॥ श्रुतविभवबलादौ क्वापि पुरुषैर्गर्वो न विधेयः, यतः - धनिभ्यो धनिनः सन्ति, वादिभ्यः सन्ति वादिनः । बलिभ्यो बलिनः सन्ति, तस्माद्दर्पं त्यजेद् बुधः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org