________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते त्पतिक्षेमप्रवृत्तिमभिधायेत्यभणत्, 'हे कृशोदरि सुन्दरि ! अधुना तावन्मया [सह] रमस्व पश्चात्त्वत्पतिलेखाद्यमर्पयामी'तीरिता सा स्वशीलं रक्षितुं सञ्जातबुद्धिर्विभावरीप्रथमे यामे मदौकसि समागच्छेरिति तमुदीर्य सेनाधिपतिमगात् । हे देव ! मत्पतिदत्तलेखादिकमसौ विप्रो नार्पयती'त्युक्तः सोऽपि तदवलोकनात्स्मरवांस्तामवादीत्, 'हे सुभ्र! तावन्मदुक्तं कुरु, पश्चात्तद्दापयिष्यामी'त्युक्ता सा तस्मै द्वितीयं यामं प्रोच्य मन्त्रिणमगात् ।
तथैवोक्तवते तस्मै अपि तृतीयप्रहरमभिधाय वासभवने स्थिताय भूपाय सा विप्रादीनां चेष्टितं गत्वाभाषिष्ट । तथैव प्रार्थयते भूपाय तुर्यं यामं निवेद्य 'तुर्ये यामेऽहमाकारणीया' इति पतिमात्रा सङ्केतं विधाय रिक्ते स्वावासे सायं सा तस्थौ। तदैव प्रथमप्रहरे समायान्तं विप्रं स्नानादिनोपचरन्त्यां तस्यां सेनापतिराययौ । आगते चास्मिंश्चकितं विप्रं सा मंजूषावक्षारके चिक्षेप, सेनापतिमन्त्रिणावपि चैवम् । तथैव पतिमात्राहूता सा भूपं तत्र निक्षिप्य प्रभाते रुदन्ती कुटुम्बेनेत्यवादि, किं रोदिसि? साप्याह कल्ये मद्भर्तुरक्षेमवार्तागता, इति श्रुत्वा तत्स्वजनै राजामात्यसेनापतीन् स्वस्वगेहेष्वलभमानैर्विज्ञप्तो राजपुत्रः, देव समुद्रदत्तश्रेष्ठी अपुत्रः परदेशे मृतस्तेन तद्विभवो गृह्यताम्!' सोऽपि तत्र गतोऽन्यत्किमप्यपश्यन् दृढदत्ततालकां तां मंजूषामादाय सौधान्तस्तस्यामुद्घाटितायां राजादयश्चत्वारोऽपि निर्ययुः । ततोऽनर्थमूलं तं विप्रं शीलवतीगिरा जीवन्तं देशान्निष्कास्य काश्यपीपतिः शीलवतीशिरोरत्नं तां शीलवतीं स्वसारमिवाभरणादिभिः सत्कृत्य सुबहुमानास्पदं कृतवान् ॥ इति शीलवतीकथा ॥ १४ ॥
॥१५ ॥ दुष्टचिन्तने विप्रकथा ॥ परस्मिंश्चिन्तितं पापमात्मनि समुपैति । अत्रार्थे श्रीधराऽङ्गविप्रकथा यथा
चिन्तितं दुरितमन्यजने स्या-द्वज्रवद्विषममात्मनि नूनम् ।
श्रीधरे विधृतबाढविरोधः, कर्णकर्त्तनमवाप यदङ्गः ॥ १ ॥ तथाहि-वरुणग्रामेऽतीवमूर्खमतीवदुःस्थं श्रीधराख्यं द्विजमन्यदा तद्दयितावादीत्, हे नाथ! राजसेवां विधेहि, तां विना दौ:स्थ्यं न याति, यत:
इक्षुक्षेत्रं समुद्रश्व, पाषाणयोनिरेव च ।
प्रसादो भूभुजां चैव, क्षणात् घ्नन्ति दरिद्रताम् ॥ १ ॥ सोऽवदत्प्रिये ! तत्राऽहं किं वच्मि? साऽवोचदिति ब्रूया:
धर्मे जय पापे क्षय, ए वातनो स्यो लेखो।
श्रीधर बोले सुण हो राजन् न जाणो तो करि देखो ॥१॥ अथ प्रत्यहमित्युक्तवते श्रीधरायान्यदा तुष्टो राजा प्रत्यहमेकं दिनारं ददौ, कथितवांश्च तस्मै अमी वर्णाः सभायामागत्य त्वया नित्यं मत्कणे वाच्याः। एवमुक्तः सोऽप्यहर्निशं तत्रा१. RSP | श्च योनिपोषणमेव च - मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org