________________
२१
तरङ्ग १ / कथा १२/१४ 'राजन् कनकधाराभि-स्त्वयि वर्षति वारिदे । अभाग्यच्छत्रसञ्छन्ने, मयि नायान्ति बिन्दवः ॥ ३ ॥ राज्ञापि पुनरिति श्रुत्वा लक्षद्वयं दापितं, तदप्यप्राप्नुवन् पुनस्तथैवाभिधत्ते स्म - — त्वयि वर्षति पर्जन्ये, सर्वे पल्लविता द्रुमाः । अस्माकंमर्कवृक्षाणां पूर्वपत्रेऽपि संशयः ॥४॥ राज्ञा पुनस्तथैव लक्षत्रयं दापितं । [ परं तदनाप्तितः ] स पुनस्तथैत्य कोशाधिपतेः कार्पण्यं राज्ञश्चौदार्यं दर्शयन्निति न्यगदत्-
एककस्य परमेकमुद्यमं, निस्त्रपत्वमपरस्य चं स्तुमः । नित्यमुष्णमहसा निरस्यते, नित्यमन्धतमसं प्रधावति ॥ ५ ॥ इति तत्कवित्वकलाकौशलेन सकर्णशिरोमणेर्भोजस्य चित्तं चमच्चक्रे । यतः - कवीश्वराणां वचसां विनोदै- द्रवन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशो - द्रवन्ति नूनं दृषदो न चान्ये ॥ ६ ॥ तेनातीवतुष्टः श्रीभोजस्तस्मै कवये स्वयमेवैतद् वितीर्णवान्, तद्यथा— लक्षं लक्षं पुनर्लक्षं, द्वौ गजौ दश वाजिनः । दत्तं श्रीभोजराजेन, जानुदध्नप्रभाषिणे ॥ ७ ॥
इति कविकलायां दानविषये श्रीभोजराजकथा ॥ १३ ॥
॥ १४ ॥ शीलपालने शीलवती कथा ॥ पतिप्रवासादिव्यसने स्त्रीणां शीलं दुष्पालनीयं । यतःमातुर्गृहेऽ हेऽवस्थितिवस्त्रार्थं रजकोपसर्पणमथो सच्चर्चिकामेलिका ॥ स्थानभ्रंशसखीविवाहगमनं भर्तुः प्रवासादयो ।
यात्राजागरदूरनीरभरणं
व्यापाराः खलु शीलजीवितहराः प्रायः सतीनामपि ॥ १ ॥
[ तेन धन्यतमास्ताः काश्चिन्मृगीदृशो या राजामात्यादिकदाग्रहदुर्व्यसने पतिता अपि स्वशीलं शीलयन्ति । ] अत्रार्थे शीलवतीकथा
धन्याः स्त्रियो दुर्व्यसनेऽपि सौवं, रक्षन्ति शीलं खलु शीलवत्या ॥ द्विजातिसेनापतिमन्त्रिभूपान्, प्रक्षिप्य पेट्यामवितं स्वशीलम् ॥ २
||
तथाहि - श्रीनिवासे पुरे पृथिवीराजे राज्ञि राज्यं कुर्वति तन्निवासी समुद्रदत्त श्रेष्ठी शीलवतीं स्वप्रियां गृहे विमुच्य सोमभूतिना विप्रेण सुहृदा परदेशमगात् । ततः स्वपुरोत्सुकस्य द्विजस्य हस्ते श्रेष्ठी सालङ्कारं लेखं पन्यै प्राहिणोत् । अथ स्वपतिमित्रं सोमभूतिमागतमाकर्ण्य शीलवत्यपि प्रियोदन्तं प्रष्टुम् तद्गृहं गता । सोऽपि रहसि समागतां तां विलोक्य स्मरातुरस्त
१ मर्कपत्राणां - RS ॥ २ वा AHRS ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org