________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते ततो राज्ञाहूताः श्रीहेमसूरयो भूपसभां प्रापुः, हे भगवन्नधुना वणिजां पुरः किं व्याख्यायते?' इति पृष्टाः पाण्डवचरित्रमिति प्रोचिवांसोऽनूचानः । तत्र च पाण्डवाः कथं क्व सिद्धा इति पुनः पृष्टाः प्रोचुर्गुरवः स्वीकृतजैनचारित्रास्तप्तदुस्तपसोऽनशनेन सिद्धाद्रौ सिद्धा इति। [तत् श्रुत्वा राज्ञा कथितं] हे सूरे! पाण्डवास्तु हिमाचले हिमेन सिद्धा इति व्यासवाक्यप्रामाण्याद्भवद्वाक्यमप्रामाणमितीरिता गुरवः प्रोचिरे हे राजेन्द्र! शृणु भारती भारती, तथाहि-समरभूमौ पार्थशरधोरणीविद्धं भूमिनिपतितमाजन्मशीलितदानशीलं कर्णनरेन्द्रं दृष्ट्वा तदातृत्वपरीक्षार्थं किंचिद्देहीति वदन्नुपतस्थे कृतविप्ररूपो विश्वरूपः। श्रीकर्णोऽप्यन्यत्कि ञ्चिन्नास्तीति विचिन्त्य यावत्स्वयमादत्तेन पाषाणेन स्वर्णरेखाञ्चितान् स्वदन्तान् पातयितुमुद्यतस्तावत्तुष्टोऽस्मीति वदन् प्रादुरासीत्पुरुषोत्तमः [ यतः
याचकार्थे धनं क्षिप्त, स्वदारागतयौवनम् ।
स्वामिकार्ये गताः प्राणा, अन्ते दृष्टा हि साधवः ॥ १ ॥ तं दृष्ट्वा कर्णः प्राह ] हे परमेश्वर! तव दर्शनेन सिद्धोऽस्मि, परं यदि तुष्टोऽसि तदा यत्र कोऽपि न दग्धस्तत्र मां ज्वालयेरिति वादिनं मृतं श्रीकर्णमादायान्यत्र तादृशं स्थानमलभमानो हरिः पयोधौ स्तम्भोपमस्य गिरेः शृंगं तादृशं मत्वा यावत्कर्णचितां कर्तुमुद्यतस्तावदिति गगनवाणी जाता
अत्र द्रोणशतं दग्धं, पाण्डवानां शतत्रयम् ।
दुर्योधनसहस्रं च, कर्णसंख्या न विद्यते ॥ ३ ॥ तेन यदि पाण्डवानां शतत्रयी तत्र दग्धा, तदास्माकमपि पञ्च पाण्डवाः शत्रुञ्जये सिद्धाः, श्रीमतामपि पञ्च पाण्डवा हिमालये सिद्धा इति किमसमञ्जसमित्युक्त्वा तुष्टेन राज्ञा विसृष्टाः सूरयः प्रतिश्रयमगुः ॥ इति परशास्त्राभ्यासे हेमाचार्यकथा ॥ १२ ॥
॥१३ ॥ दानविषये श्री भोजकथा ॥ विदुरवाग्विलासैः प्रमुदितमनसः किं न यच्छन्ति दानशौण्डाः? अत्रार्थे भोजराजकथा
पाण्डित्यपीनं वचनं निशम्य, न दीयते किं किल दानशौण्डैः ।
लक्षत्रयं द्वौ करिणौ दशाश्वान्, दत्ते स्म भोजः श्रुतजानुदध्नः ॥ १ ॥ तथाहि-सकलभूपालमालामालितो राजपाट्यां व्रजन् धाराधिपः श्रीभोजराजो नदीमुत्तीर्यायान्तं मूर्धारोपितदारुभारं जीर्णवस्त्रमेकं द्विजन्मानं प्रति नदीजलमुद्दिश्येति व्याजहार"कियन्मात्रं जलं विप्र?' सोऽवादीत्-'जानुदध्नं नराधिप !' ॥ भूपोऽवदत् 'तदा केयमवस्था ते'। सोऽवोचत्- 'न सर्वत्र भवादृशाः' ॥ २ ॥ जानुदध्नमित्यद्भुतप्रयोगचमत्कृतेन भूपेनास्मै लक्षमेकं कोशाधिपतेर्दापितं, तदनाप्तितो दुर्मनाः सुमनाः पुनरेत्य राजदानगुणमात्मनश्चाभाग्येन तदनाप्तिं बिभणिषुरिति बभाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org