________________
तरङ्ग १ / कथा १०/१२
प्रपाया मध्ये वणिजमुपावेश्य स्वयं च स्वर्णकारो हस्तविन्यस्तकपोलश्चरणोल्लिखितभूतलोऽतीवदुर्मना विलक्षस्तद्बहिस्तस्थौ ।
तदा सापि धनिकेन सारथिना प्रेर्यमाणं रथमारूढा तमेव वणिजं ध्यायन्ती तत्राययौ, ज्ञातोपायया तया [स्वर्णकारो] वैलक्ष्यनिदानं पृष्टः, स प्रोचे ' हे सुभ्रु ! अहमपि भवतीमिव सुभगामापन्नसत्वां स्वप्रियामादाय स्वगृहे गच्छन्नभवं किञ्चासन्नप्रसवा सा मे पत्नी जातप्रसवपीडाऽस्यां प्रपायां सुप्तास्ति, किञ्चान्या कापि नारी नास्ति, याऽस्याः प्रसवप्रतिचर्यां करोति, किञ्चास्मिन् क्षणे स्त्रीणां प्रतिचर्या स्त्रियैव विधीयते, तेनाहं वीक्षापन्नोऽस्मि किं करोमि वराकोऽहमिति ।' अहं विधास्ये तत्प्रतिचर्यामत्र का चिन्तेत्यभिधाय सा प्रपां प्रविश्य तेन वणिजा सह विविधभङ्गया विहितसम्भोगां पुना रथारूढां तां तत्पतिः प्राह 'हे प्रिये ! तस्याः किं जातं ? सुतः सुता वा ? सा स्माह
बलिहारी उस मित्तकी, जीसके मित्त छयल्ल ॥
बेटा हुवा न बेटडी, हांके बेल बयल्ल ॥ १ 11 'बेटा हुवा' इति पदात्सुतं मन्यमानः श्रीधरस्तामादाय गृहमागात्, तावपि च स्वधाम गता ॥ इति मित्रमतिविषये कथा ॥ ११ ॥
॥ १२ ॥ शास्त्राभ्यासे श्री हेमाचार्यकथा ॥ स्वशास्त्राऽभ्यासोहि पुरुषजन्मनः फलं, यतः -
नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता । खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ॥ कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये । जन्मैतद्गतमेव निष्फलमहो शून्यालये दीपवत् ॥१॥ तेनास्तामात्मीयः शास्त्राभ्यासः, परेषामपि बौद्ध- नैयायिक-सांख्यादीनामपि शास्त्रसंग्रहः शुभः । अत्रार्थे श्रीमाचार्यकथा यथा-
१९
परशास्त्रग्रहोऽपि स्यात्, शुभो यत्सिद्धभूपतिः ।
अत्र द्रोणेति भणना - त्तोषितो हेमसूरिभिः ॥ २ ॥
Jain Education International
' तथाहि - अणहिल्लपुरपत्तने श्रीसिद्धराजजयसिंहे राज्यं कुर्वत्यन्यदाकलिकालसर्वज्ञैः श्रीहेमचन्द्राचार्यैर्वाच्यमानं पाण्डवचरित्रमाकर्ण्य दुर्मुखैस्त्रिमुखैर्विज्ञप्तो राजा, 'हे देव! पञ्चापि पाण्डवा हिमालये सिद्धिमगुरिति वेदव्यासवाक्यमसौ हेमाचार्यः शत्रुञ्जये सिद्धास्ते इति कथनेन दूषयतीत्यसमञ्जसम्'।
१. तुल्याप्रायम्-उपदेशप्रासादे व्या० २६५ । प्रभावकचरित्रे पृ. १८८ ॥
For Private & Personal Use Only
www.jainelibrary.org