________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
गुरुसन्निधावर्हद्गुणश्रवणसमुत्पन्नप्रमोदोऽर्हन्तं देवं विहायान्यं देवं न नमस्यामीति नियममग्रहीत् । तस्य चैनं नियमं सभायां सुरेन्द्रेण भूयो भूयः प्रशंसितम श्रद्दधानः कोऽपि नाकी ज्वरशूलशिरोऽर्त्ति - श्वासादीन् महारोगांस्तस्य शरीरे विकृत्य कृतविप्ररूपस्तत्रागत्य तत्पितरं प्रोचिवान्। श्रीदत्तोऽपि तमप्राक्षीदहो नैमित्तिक ! ज्योतिषं विलोकय कथय मत्पुत्रस्य किमस्ति ? सोऽपि तद्विदधे स तदेव वेत्ति । यतः -
1
वैद्या वदन्ति कफपित्तमरुद्विकारं, ज्योतिर्विदो ग्रहगणादिनिमित्तदोषम् भूतोपसर्गमथ मन्त्रविदो वदन्ति कर्मेति शुद्धमतयो यतयो गृणन्ति ॥ ३ ॥ तेन स क्षणं विमृश्य प्राह हे ' श्रेष्ठिन्नामी स्वभावोत्पन्ना रोगाः, किंतु बहिर्गच्छतानेन विराधितः क्षेत्रपालोऽमुं पीडयति, तेन यदि पूजोपहारनमस्कारादिना तमसावाराधयति तदास्य पीडोपशान्तिः, अन्यथा प्राणप्रणाशः । '
१८
इदं तद्वचः पित्रोक्तमाकर्ण्य श्रीकरणः स्माह ' हे तात! चेत्प्राणा यान्ति तदाद्यैव यान्ति परमर्हन्तं विहायान्यस्मै देवाय मनसापि न नमस्यामि, पूजादिनां का कथा ?' इतितस्मिन्वदति तदैव, एकेन दुष्टेन सर्पेण दष्टः कुमारो मुमूर्छ । विप्रोऽपि तद्गृहान्निर्गत्य गृहीतसर्पकण्डो योगिरूपेणागत्याभ्यधादहो शेषनागवंशोत्पन्नोऽयं मद्भुजङ्गोऽशेषानामयांश्च हन्ति, तेन वन्द्यतामसाविति। अथ लब्धसंज्ञाय पुत्राय पित्रोक्तं, पुत्रः प्रोचे ' हे तातैतद्वचो मम न रोचते, तेन यथाकर्म भवतु' इति ब्रुवाणं तं श्रीकरणं दृढप्रतिज्ञं विज्ञाय इन्द्रकृतप्रशंसां च निवेद्य दत्तमहामूल्यहारो प्रणम्य स सुरः सुरलोकमगात् । श्रीकरणोऽपि स्वं नियममाराध्य प्रान्ते स्वीकृतचारित्रो निर्वाणसुखं भेजे ॥ इति नियमपालने श्रीकरणकथा ॥ १० ॥
॥ ११ ॥ मित्रमतिविषये श्रीधरकथा ||
मित्रं विना दुःसाध्यमपि कार्यं कः करोति ? बुद्धिमन्तं सुहृदं विना सुखावाप्तिर्न स्यात् । यतः
कुतस्तस्यास्तु राज्यश्रीः, कुतस्तस्य मृगेक्षणा ।
यस्य शूरं विनीतं च, मित्रं नास्ति विचक्षणम् ॥ १ ॥
तेन सुहृदो हि दुःसाध्यानि कृत्यानि सृजन्ति, अत्रार्थे वणिक्कथा यथाभक्तिभुक्तिमहासत्रं, मित्रं जयति सर्वदा
सुहृदबुद्धया सुखं भेजे, विप्रपत्नी यथा वणिक् ॥२॥
तथाहि - [ श्रीपुरनिवासिनं ] मातृमुखमुख्यं श्रीधरनामानं द्विजन्मानं पितृगृहात्स्वप्रेयसीमादाय स्वगृहे गच्छन्तं मार्गे कावपि स्वर्णकारवणिजौ तरुणौ सुहृदावपश्यताम् । तयोरेको वणिक् सौन्दर्यभृङ्गारां सज्जितशृङ्गारां जातरागां तत्प्रियां प्रेक्ष्य मन्मथमथितमनाः स्वमित्रमभणत्, 'हे मित्रेमां मम मेलये'त्युक्ते [स्वर्णकारो ] ऽन्येन पथा [तेन सह ] तद्रथाग्रतो भूत्वा तत्पथ्येवैकस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org