________________
तरङ्ग १/ कथा ९/१० रूपवत्यपि वासगृहमागता, तं च सुप्तं निभाल्य मुदिता सती ततो द्रुतं निरगात्, तत्पृष्टे च सोऽपि । [अथ सा] दूतीमुखात् स्वजारं चौरं शूलाधिरोपितं मत्वा तदभ्यर्णमागात्। तदा किञ्चिज्जीवन् स तस्करस्तामालोक्य प्रोचे, हे प्रिये! मुखमुदञ्चय करोमि तवाऽधरचुम्बनं, येन सुखेन मत्प्राणा यान्तीत्यभिहिता सा तदुक्तं कर्तुमुद्यता । यदा च तन्मुखे तस्या नक्रमायातं तदैव स प्राणैर्मुमुचे। तदा च तीक्ष्णतरतदीयदशनखण्डितं तस्या नक्रं चौरमुखे एवास्थात् ।
तदाचैतत्वरूपमालोक्येतस्तत्पतिः शनैर्निर्वृत्य स्वास्पदमागत्य तथैव सुप्तः । साऽपि स्वैरिणीशिरोमणिः श्रवद्रुधिरा मुखं पिधाय गृहागता स्वदोषमपाका पूच्चक्रे, धावत धावत रे जना! अनेन मत्पतिना पापिना मदनागमनात्कुपितेन मन्नासा छिन्ना, किं करोम्यबलाहमेकाकिनी? इति सत्यस्वरूपविलोकनेन क्रुद्धस्तत्पिता जितशत्रुनृपज्ञापनपुरस्सरं स्वजामातरं शूलाधिरोपाय समादिशत्। ज्ञाततत्प्रबन्धः सुबुद्धिरपि तत्र समेत्य स्वमित्रमभाषत, 'हे मित्र! किमिदं ?' सोऽपि बाढं बद्धहस्तोऽशेषं रात्रिवृत्तान्तं मित्रायावादीत् । ततः
सुबुद्धिना विज्ञप्तो जितशत्रुरपि तस्करमुखान्निर्गतं तन्नक्रं विलोक्य दध्यावहो स्त्रीचरित्रं! यतः
अन्नं रमइ निरिक्खइ, अन्नं चिंतेइ भासए अन्नं ।
अन्नस्स देइ दोसं, कवडकुडी कामिणी विअडा ॥ ४ ॥ तेन धिगस्तु नितम्बिनीं, यतः--
नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् ।
आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ ५ ॥ [योगशास्त्रे २।८६] इत्यादिस्त्रीदौःशील्योद्विःग्नो गुणाकरं बन्धनाद्विमोच्य सुताय दत्तराज्यमारो दत्तश्रेष्ठिगुणाकरसुबुद्धिप्रमुखैर्लोकैः सह गृहीतदीक्षो राजा मोक्षमार्गमसाधयत् ॥ इति स्त्रीचरित्रोद्विग्नजितशत्रुनृपकथा ॥९॥
॥१०॥ नियमपालने श्रीकरणकथा ॥ प्राणान्तेऽपि सन्तः स्वमर्यादां न मुञ्चन्ति, यतःनिन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १ ॥ अत्रार्थे श्रेष्ठिपुत्रकथा यथा
सन्तो नियममर्यादां, त्यजन्ति न हि जातुचित् ।
हित्वार्हन्तं यथा देवं, नानंसीदन्यमिभ्यभूः ॥२॥ श्रीमन्दिरे पुरे श्रीदत्त श्रेष्ठिनः श्रीकरणनामा सुतोऽस्ति, स च शैशवेऽप्येकदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org