________________
१६
श्री कथारत्नाकरे
श्री हेमविजयरचिते तयाप्यासनाभ्युत्थानादिप्रतिपत्तिपूर्वकं मोदको गृहीतः, एवं तया मोदके गृहीते सति सा स्वावासमाविशत् । अथ द्वितीययापि सपत्न्या तथैवोदीर्य दत्तं मोदकमादायैषा वृद्धसपत्नीदत्तं तस्यै ददौ । सापि तमादाय हृष्टमनाः स्वसद्मनि गता । ततस्तृतीयया चतुर्थ्यापि तथैव कृते एषापि द्वितीयादत्तं तृतीयस्यै, तृतीयादत्तं च चतुयें दत्तवती । ततोऽसौ चतुर्थ्या दत्तं मोदकमादाय वृद्धसपत्नीगृहे गत्वा मधुरैर्वचोभिश्च तां तोषयित्वा मोदकं च दत्त्वा स्वगृहमागता । अथ ताः सर्वा अप्यज्ञातमिथ:स्वरूपा मोदकभक्षणेन स्वयमेव पञ्चतां प्रापुः । विनीतापि ज्ञातसपत्नीमरणस्वरूपा पापपराङ्मुखा विशेषतः पतिप्रतिपत्तिपरायणा धर्ममाराध्य सुगतिभाग् बभूव ॥ इति परस्मै पापं न चिन्तनीयमित्यर्थे विनीतासपत्नीकथा ॥८॥
॥९॥स्त्रीचरित्रोद्विग्नजितशत्रनुपकथा॥ भाविभद्राः केऽपि पुमांस: सुन्दरीणां चरितं निरीक्ष्य गृहवासोद्विग्नाः पुण्यपराः स्युः, ये च ज्ञातदुःशीलां महिलां न त्यजन्ति तेऽवश्यं सुखैस्त्यज्यन्ते । यतः
मित्रं शाठ्यरतं कलत्रमसतीं पुत्रं कुलध्वंसिनं । मूर्ख मन्त्रिणमुत्सुकं नरपतिं वैद्यं प्रमादास्पदम् ॥ देवं रागयुतं गुरुं विषयिणं धर्मं दयावर्जितं ।
यो नैव त्यजति प्रमोहवशगः स त्यज्यते श्रेयसा ॥ १ ॥ तेन ज्ञातस्त्रीचरित्रैः पुरुषैरवश्यं विरतैर्भाव्यम् । अत्रार्थे कथा यथा
निरीक्ष्य चरितं स्त्रीणां, धन्याः स्युर्विरताशयाः।
यथा श्रेष्ठिसुतानकं, चौरास्ये वीक्ष्य पार्थिवः ॥ २ ॥ तथाहि-वरसालनामनगरे रत्नसारस्य श्रेष्ठिनो गुणाकरनामा पुत्रः, स च लोकव्यवहाराऽकुशलः पशुरिवावर्द्धिष्ट । अन्यदा तमेतादृशमेव धनस्पर्द्धितधनदः पिता रत्नपुरवासिनो दत्ताख्यस्य नगर श्रेष्ठिनो रम्भामिवातिरूपवती रूपवतीनामकन्यां विवाहितवान् । ततोऽसौ पितृभ्यां प्रेरितोऽपि लोकस्थितिविकल: पल्याऽऽनयनार्थं न याति । तदा च स अतीव मुग्धः पित्रा प्रावीण्याय प्रीतिसुन्दरीपण्याङ्गनाया गृहे मुक्तः । यतः
देशाटनं पण्डितमित्रता च, पण्याङ्गना राजसभाप्रवेशः ।
अनेकशास्त्रार्थविचारणं च, चातुर्यमूलानि भवन्ति पञ्च ॥ १ ॥ तत्र चासौ शिक्षितचातुरिकः पित्राज्ञयैकेन सुबुद्धिना सुबुद्धिनाममित्रेण सह रत्नपुर ययौ, तत्र च दत्तेन श्रेष्ठिना अभियान-स्नानाऽ-शन-वसनादिना स निजजामाता सन्मानित: । स चैतावन्तं कालं पितृगृहे स्थिता मत्पत्नी किं शीलं पालितवती न वेति पश्याम्यस्य विचेष्टितमिति ध्यात्वा वासभवने दम्भनिद्रया यावत् स्वपिति । तावत् सज्जितशृङ्गारा सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org