________________
तरङ्ग १/कथा ७/८ दृष्ट्वा मूल्येन याचितवान् । साह-'अनयोर्मूल्यमिदमेव, यः कश्चित्स्वमुखे थूत्कर्तुं दास्यति तस्मै एतौ हयौ दास्यामीति निश्चितम्, किं चेदं गुह्यमहं कस्यापि पुरो न वक्ष्ये, अत्रार्थे च पित्रादीनां शपथः ।' अथ तत्तुरगलुब्धेन तेनापि तत्कारितम् । ततो गृहीतहयो गुणसारः स्वगृहं जगाम, सा च पितृनिकेतनं, पुनः श्वसुरगृहमागता । अथान्यदा त्रोटितबन्धनयोस्तयोरश्वयोर्बन्धनाय निशीथे शयनादुत्तिष्ठन्तं स्वपतिमऽभाषिष्ट हे प्राणेश किमुत्तिष्ठसि?' सोऽवादीत् 'त्रोटितबन्धनाविमौ मे हयौ मुधा मरिष्यतः,' इति निशम्य सोचे- 'हे प्रिय! म्रियेतामिमौ तुरङ्गौ, हया भूयांसो, येनान्यः कश्चिन्मुखे थूत्करिष्यति स पुनस्तुरगौ दास्यतीति । ततस्त्रपावनम्राननं स्वनाथं सा पुन: प्रोचे-'हे प्रिय! त्वं हारवृत्तान्तं कथं जानासि?' ततस्तेन स्वविलसिते कथिते सति सापि स्वचेष्टितं स्पष्टमभाषिष्ट । गुणसारोऽपि प्रियाप्रावीण्यप्रीणितमनास्तया सह भुक्तभोगः प्रान्ते पुण्यपथमाराधितवान् ॥ इति छलेन स्ववैरग्रहणेऽमरसुन्दरीकथा ॥ ७ ॥
॥८॥दुष्टचिन्तने विनीतासपत्नीकथा ॥ अपकारिण्यपि नरे सुधीः पापं न चिन्तयेत्, अपकर्तारो हि स्वयमेव स्वकृतमित्रद्रोहादिफलं लभन्ते । यतःअपकारिषु माऽपायं चिन्तयस्व कदाचन । स्वयमेव पतिष्यन्ति, तीरजाता इव द्रुमाः ॥१॥ अत्रार्थे च चतुःसपत्नीकथा यथा
अन्यस्मै चिन्तितं पापं निपतेन्निजमूर्द्धनि।
विषमोदकदात्र्यो य-त्सपत्न्यः पञ्चतामगः ॥ २॥ तथा–धन्यपुरनामपुरे धनसार: श्रेष्ठी वसति स्म, स च भूरितरविभवमदोन्मादादनुक्रमेण परिणितचतुष्पत्नीदौर्भाग्योद्विग्नः परदेशमगात् । तत्र चामररमणीमिव सुरूपां, गङ्गामापगामिव विमलस्वरूपां, रतिमिव प्रमुदितकन्दर्पा, श्रियमिव प्रीणितपुरुषोत्तमदर्पा, गौरीमिव मनोहरां, भारतीमिव चतुरचित्तवित्तपश्यतोहरां, सर्वलक्षणलक्षितां विनीतां विनीतानाम्नी धनदत्तश्रेष्ठिसुतां परिणीय स्वधामाजगाम । तत्र च चतसृणामपि तासां दौर्भाग्यभाजां पुरातनपनीनां पृथक् पृथक् गृहभोजनवसनादिचिन्तां विधाय तामिति शिक्षितवान्, 'हे भद्रे! इमास्तव सपत्न्यः पापीयस्यः सन्ति, तेनैताभिर्दत्तमन्नपक्वान्न-क्षीरनीरफलपुष्पपत्रादि भवत्या नादनीयं, त्वया चैतासां देयमिति' पतिशिक्षाविचक्षणैकाकिन्येव स्वपतिना समं सा यौवनसुखमन्वभूत् । अन्यदा सपत्नीमात्सर्यनिघ्नाभिस्ताभिस्तन्मारणाय स्वस्वौकसि परस्परमकथयित्वैव विषमोदकाश्चक्रिरे ।
अथ तासु च वृद्धा सपत्नी गृहितविषमोदका विनीताधामागत्य मायया मधुरैर्वाक्यैस्तामूचे, 'हे भगिनि! गृहाणैनं मत्पितृगृहादागतं मनोमोदकं मोदकम् । तत् श्रुत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org