________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते गृहीताट्टस्तस्थौ । तत्र च स पुरन्दरपुरागतेनैकेन मन्मथसंज्ञेन सार्थवाहेन सौहार्दमकरोत् । अथान्यदा पितुराकारणवशादागताममरसुन्दरीं निभाल्य स्मरपीडितोऽयं मन्मथ: सार्थवाहो गुणसारं बभाषे 'हे मित्र ! केयममरीव वरीयसी कुमारी?' सोऽप्यवादीदस्य श्रेष्ठिनः सा सुतास्तीत्युदिते स पुनः प्राह, 'हे मित्र ! त्वमेव मे विश्रम्भभाजनं, यतःशोकारातिपरित्राणं, प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं, मित्रमित्यक्षरद्वयम् ॥ ३ ॥
तेन त्वां वच्मि, यदीयं मामीहते तदा द्वात्रिंशन्मणिमयमिमं रत्नावलिनामानं हारमस्यै यच्छामि। सोऽपि वरमनेनोपायेनास्याः परीक्षा भवितेति हृदि ध्यात्वा कृतकार्यान्तरदम्भस्तद्गृहं गत्वा तस्यै यदुक्तमुक्तवान् । सापि शीलरक्षापुरस्सरं हारग्रहणोपायं मनसि निश्चित्योचे 'तदुक्तं विधास्ये, परमेकवारमेव मिलिष्यामि।' अथ गुणसारोदितां तां तत्प्रतिज्ञामङ्गीकृत्य सार्थवाहोऽपि सङ्केतदिने विहितवसनाभरणाडम्बरस्ताम्बूलसुरभितमुखः सायं तत्रागात् । साप्यात्मानुकारिवयोवसनाभरणरूपस्वरूपामेकां निजामनुचरीमादौ त्वया रत्नावलीहारो गृहीतव्यस्तदनु च तेन सह सम्भोगो विधेयः, कृतसम्भोगया च त्वया ततो द्रुतं निवर्त्तनीयमिति शिक्षां दत्त्वा तत्पार्श्वे प्रेषीत् । अथ सोऽपि स्मरान्धस्ताममरसुन्दरीमेव मेने । यतः
दिवा पश्यति नोलूकः, काको नक्तं न पश्यति ।
अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥ ४ ॥ साप्यादत्तहारा विविधविलासैस्तेन सह रन्त्वा ततो द्रुतं निर्ययौ । एतद्व्यतिकरं सर्वमपि गुणसारः प्रच्छन्नवृत्त्या स्थितो विलोक्य दध्यावहो अस्या धीः ! यदनया स्वशीलमरक्षि, हारोऽप्यादायीति । तच्चातुरीचमत्कृतः संहृतव्यापारोऽसौ निजगृहमागात् । ततोऽसौ गृहानीतया तया सह भोगान् भुञ्जन् दिनान्यनैषीत् । अन्यदैकत्र शयने सुप्तेन तेन स्वकरेण तस्मिन् हारे समाकृष्टे सति सा स्माह 'हे प्राणेश हारमिमं मा कर्ष त्रुटिष्यत्यसौ महामूल्यो हारः' इत्याकर्ण्य सोऽवदत् 'हे सुभ्र ! हारा भूयांसः ! येन अन्यः कोऽपि दास्याद्युपायेन मुषणीयः' इति श्रुत्वा सा दध्यावहो किमसौ तन्मद्विलसितं दृष्टवान् ? उत केनाप्युक्तमस्य पुरस्तात् ? अथवा भवत्वेतत्, परमेतन्मर्मप्रकाशनवैरं छलेनादास्ये । इति निश्चित्य द्रुतं प्रारब्धवार्तान्तरेण तां रात्रिं निर्गमय्यान्येद्युस्तमापृछ्य सा निजपितुर्गृहमगात् । ततोऽसौ कृतपुरुषवेषा बहून् हयानादाय स्वपतिपुरमागता, तत्र च तुरगान् विक्रीय तन्नाणकपरावर्त्तनाय स्वश्वसुरहट्टे समागता । तत्रोपविष्टेन स्वपतिना सोचे- 'भोः सुभग! त्वया किं विक्रीतं?' तयोचे 'हया' इति । 'अथ सन्ति तुरगाः?' इति गुणसारेणोक्ते साऽवादीत् महामूल्यमश्वद्वयमधुनाप्यस्ति । ततो गुणसारस्तदश्वविलोकनाय तत्पटकुटिमागत्य समस्तशस्तलक्षणा-वुच्चैःश्रवःसोदराविवातीवसुन्दरौ तावश्वौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org