________________
___ तरङ्ग १/ कथा ५/७ नकुलो हृष्टलोमा स्या-न्मयूरश्च प्रमोदते ।। अस्य चाऽऽलोकमात्रेण, विषं मन्दायते क्षणात् ॥ ६ ॥ उद्वेगं याति माजारः, पुरिषं कुरुते कपिः ।
गतिः स्खलति हंसस्य, ताम्रचूडो विरौति च ॥ ७ ॥ तेन तस्य राज्ञः स कलापी कनकशृङ्खलामण्डितगलचरणस्तत्र स्वैरं भ्रमति । अन्यदा तत्र निवासिनो धनश्रेष्ठिन: प्रिया गुर्विणी सञ्जाततन्मयूराऽऽमिषभक्षणदोहदा तं मयूरं विपाद्य रहसि भक्षितवती । तेन च राज्ञा भोजनाऽवसरे बहुविलोकनादप्यलब्धे तस्मिन् कलापिनि तच्छुद्ध्यै वाद्यमानं पटहं 'सप्तदिनैरहं तच्छुद्धिं करिष्यामी'ति वादिनी नापितप्रिया पस्पर्श । अथ सा पुरे भ्रमन्ती धनश्रेष्ठिगृहे गता, मायया च तां पृच्छति स्म 'हे पुत्रि ! तवाऽऽधानमस्ति, तेन ते को दोहदो जातः?' साऽपि दोहदोत्पत्तिमयूरामिषभक्षणावधिस्ववृत्तान्तमचीकथत् । तया नापितप्रियया तच्छुद्धौ निवेदितायां राजा स्माह- 'नाऽहमिदं मन्ये, श्रेष्ठिप्रियैतदकृत्यं न करोति, किञ्च यद्यहं स्वयं शृणोमि तदा मन्ये,' इति वादिनं राजानमादाय सापि तत्र गता । राजानं च भित्तिपश्चाद्विमुच्य मध्ये गत्वा सा तां प्राह- 'हे पुत्रि ! कथं त्वया स मयूरोऽमारी'त्युक्ता श्रेष्ठिन्यभाषिष्ट- 'घण्टिकाशृङ्खलाद्युत्तार्य ग्रीवां भक्त्वा तन्मांसमभक्षयं, तत्पिच्छ-चञ्चुचरणाऽस्थीनि च भूमौ निक्षिप्तानि' इति वादिन्यां तस्यां नापितप्रिया राजानमुद्दि-श्येत्यवादीत, 'शृणु रे भित्ते ! भाट्कृतिमिति निशम्य चकिता श्रेष्ठिनी दध्यौ, नूनमनया कोऽपि सङ्केतः कृतः, तेन स्वदोषमपाकर्तुमुत्पन्नधीस्तदनु किमिति तया पृष्टा साऽभाषिष्ट-'ततोऽहं जागृता'। तदनु सावदत् ‘तर्हि किमसौ स्वप्नः?' तदा श्रेष्ठिनी ब्रूते 'हे मातरेतदकृत्यं किं वयं कुर्मः?' इति तया स्वदोषे निराकृते राजा गृहमागत्य नापितप्रियां नक्रच्छेदादिपुरस्सरं विडम्ब्य पुरान्निष्कासितवान् ॥ इति स्त्रीचरित्रे श्रेष्ठिनीकथा ॥ ६ ॥
॥७॥ वैरग्रहणे अमरसुन्दरीकथा ॥ दम्भेन हि यादृशं वैरमादीयते न तादृशं वैरं प्रबलैरपि बलैः, श्रेष्ठिसुतावत् । यतःवैरमादीयते प्राय-श्छलैर्न प्रबलैर्बलैः । यथा श्रेष्ठिसुता हार-वैरं दत्त्वा हयौ ललौ ॥ १ ॥
तथाहि-भूभूषणे पुरे रत्नसारश्रेष्ठिनो गुणसार: सुतोऽस्ति । स च गुरुसमीपादाकर्णितस्वैरिणीदुःशीलविलसितः पितृभ्यां प्रेरितोऽपि पाणिग्रहणं न करोति । यतः
दुर्जनदूषितमनसां, पुंसां स्वजनेऽपि नास्ति विश्वासः।
बालः पयसा दग्धो, दध्यपि फूत्कृत्य खलु पिबति ॥ २ ॥ ततो विहितबाढनिर्बन्धाभ्यां पितृभ्यां रत्नपुरवासिनोऽमरदत्तस्य श्रेष्ठिनः पुत्रीममरसुन्दरीकन्यां परिणायितः स्वपुत्रः'। परं स तस्या आनयनार्थमुक्तो वक्ति- हे तात! अहं तां परीक्ष्यैवानेऽऽष्यामीति कृतसार्थवाहरूपो गृहितविविधभाण्डो रत्नपुरमागत्य श्वसुरापणाभ्यर्णे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org