________________
तरङ्ग १/ कथा ४/५ ॥५॥कलिकालविरुद्धाचरणे युधिष्ठिरकथा॥ प्रायः कलियुगे सर्वापि लोकस्थितिविरुद्धा, यतः
धर्मः पर्वगतस्तपः प्रचलितं सत्यं च दूरे गतं, पृथ्वी मन्दफला नृपाश्च कुटिला मेघास्तथा निर्जलाः ॥ लोक: स्त्रीषु रतः स्त्रियोऽतिचपला लौल्यं गता ब्राह्मणाः ।
साधुः सीदति दुर्जनो विलसति प्रायः प्रविष्टे कलौ ॥ १ ॥ अत्रार्थे च पुराणोक्ता युधिष्ठिरनृपकथा यथाप्रायो विरुद्धाचरणं कलौ युगे तटाकगोकाकलुलायकूपगम्।
स्वरूपमालोक्य युधिष्ठिरोऽन्यथा-व्रताशयोऽभूत् श्रुतिवाग् यदिदृशी ॥ २ ॥
तथाहि-अन्यदा सर्वत्र विरुद्धाचरणकारणं स्वागमं ज्ञापयितुं विहितविप्रयवनरूप: कलिकालो भीमार्जुननकुलसहदेवैः सहोदरैः सहोद्याने क्रीडतो धर्ममयमूर्तिधर्मपुत्रस्य स्वस्वरूपमदीदृशत् । तं च दृष्ट्वा जातविस्मयो राजा दध्यावहो किमिदं चित्रं ! यदसौ पुमान् विप्रवेषं यवनवेषं च बिभर्ति! इति संशयानं राजानं सोऽवादीत्– 'हे राजन् ! किमनेन ममानुचितवेषरचनादर्शनेनाश्चर्यं मन्यसे? चेदाश्चर्यं दिदृक्षुरसि तदा चतुर्ध्वपि दिग्देशेषु स्वसहोदरान् प्रेषयेत्युक्तो राजाऽपि स्वयं तत्रैवोपविश्य तदुक्तं कृतवान् । ततो भीमः पूर्वस्यां दिशि व्रजन् सान्द्रदर्भहरिततृणाङ्करविहितोल्लासे निम्नगाप्रदेशे द्वादशभिर्मुखैर्निरङ्कशं तृणदर्भादि चरन्तं महिषमुदीक्ष्य दध्यावहो एवं द्वादशभिर्मुखैश्चरतोऽप्यमुष्य महिषस्य जठरपूर्त्तिन जायते ! महच्चित्रमिदमिति मन्यमानो भीमः पश्चाद्ववले ।
तथा अर्जुनोऽपि दक्षिणस्यां दिशि गच्छन् सद्य:प्रसूतायाः स्ववत्सिकायाः स्तनेभ्यः स्तन्यं धयन्तीमेकां गां विलोक्येति चिन्तितवान्-अहो! यद् एषा गौः स्ववत्सिकाया अपि स्तनान् धयतीति महान्तं विस्मयं मनसि वहन् व्याजुघोट । नकुलोऽपि पश्चिमायां दिशि चलन्नेकस्मिन्नशोकतरुशाखाप्रलम्बिते कनकशिलाकामणिमुक्तादिसुन्दरे पञ्जरे कलहंसैः सेव्यमानवायसं विलोक्येति ध्यातवानहो पक्षिचाण्डालमपि काकं राजहंसाः सेवन्ते, इत्यद्भुतं विभावयन् पश्चाद्वलितः । स तथा च सहदेवोऽपि कौबेर्यां दिशि पर्यटन्नेकस्मिन् प्रदेशे गतस्तत्र चोभयपार्श्व-योस्तटाकद्वयं, मध्ये चैकं तटाकम् । अथ दूरस्थयोरपि पार्श्वस्थयोस्तयोईयोस्तटाकयोरपि तरङ्गा: परस्परं तयोरेव मध्ये पतन्ति स्म, मध्यस्थे सरसि च बिन्दुमात्रमपि जलं न पततीति निरीक्ष्य स दध्यौ, दूरस्थयोरप्येतयोः सरसोस्तरङ्गाः समीपगमपि सरो विमुच्य तयोरेव मध्ये पतन्तीति महदाश्चर्यं चिन्तयन् स चलितः । तदा ते सर्वेऽपि युगपद्युधिष्ठिरपार्श्वमाजग्मुः, तेषु च स्वस्वदृष्टमुक्तवत्सु स पुमान् पुनरप्याह- 'हे राजन्नागच्छ इतोऽप्यधिकं चित्रं दर्शयामी'त्युक्तो १. तुला-उपदेशसारे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org