________________
श्री कथारनाकरे
श्री हेमविजयरचिते ॥४॥ तत्कालमतौ दण्डिकथा ॥ धूर्त्तानां चरितं वक्तुमशक्यं, यतस्तैर्जगदपि वञ्च्यते । यतः
'कक्षे किं?' ननु पुस्तकं 'गलति किं?' काव्यस्य सारो रसः । 'पुच्छं किं?' ननु ताडपत्ररचना 'रेखाः कथं ?' पतयः ॥ 'गन्धः किं?' ननु युद्धबद्धरचना रामायणी भारती ।
इत्येवं ननु गौडदेशपुरुषैधूर्तेर्जगद्वञ्च्यते ॥ १ ॥ ततो मनुजा दूरे तिष्ठन्तु, कपटलम्पटैः पशवोऽपि हि वञ्च्यन्ते, दण्डिनामद्वा:स्थवत् ।
यत:पशवोऽपि प्रतार्यन्ते । स्फुटं कपटलम्पटैः । पुरा तप्तपयःपाना-न्मार्जारोऽवञ्चि दण्डिना ॥ २॥
तथाहि-वसन्तपुरे अरिमर्दनो नाम राजा, तस्य चातीवनिपुणस्तात्कालिकमतिमान् दण्डिनामा द्वारपालोऽस्ति, तस्य मतिकौशलकथा राज्ञः पुरस्तात्केनाप्यकारि, यथा हे देव! तव वेत्रिणो दण्डिनो मतिर्वरीयसी, येनासौ क्वापि विषमेऽपि कार्ये न मुह्यतीत्याकर्ण्य तन्मतिकौशलविलोकनाय जातकौतुकेन भूपेन स दण्डी सभायामाकारितः, प्रोक्तं च- 'हे दण्डिन् ! गृहाणेमां मम महिषीम्, अस्याः पयश्चामुष्य मार्जारस्य प्रत्यहं पायनीयम्' इत्युक्ते दण्ड्यपि सद्यः प्रसूतां सद्यस्कां कुण्डोध्नी प्रभूतपयःप्रदां लघीयसीं रक्तलोचनामतीवरम्यां तां महिषी तं च बिडालमादाय गृहमागतः, सप्तदिनानि भूपानुशासनमनुष्ठितवान् । प्राप्तेऽथाष्टमेऽहनि दण्डिना भार्याऽभाणि,- 'प्रिये ! पश्य राज्ञो मतिवैकल्यं! यदमृतोपममेतत्पयो बिडालस्य पाय्यते । अथ विलोकय मन्मतिमित्युदीर्य भृशमुष्णीकृत्य तत्पयो मार्जारपुरो ढौकितं, बिडालोऽप्यतितप्तेन तेन पयसा दग्धवदनोऽनश्यत्, आनीयमानोऽपि दग्धत्वान्नति स्म । एवं कतिचिद्दिवसानानीयते, 'परं दग्धवदनो नायाति । एवं स तथा भीतो यथा शीतेऽपि पयसि ढौकिते नाऽऽयाति । दण्डिना च तन्महिषीक्षीरं स्वयमनुदिनं व्यापार्यते, मार्जाराय चोच्छिष्टमन्नतक्रादि दीयते । एवं च कियत्सु दिवसेषु गतेषु राज्ञा दण्डी पृष्टः- 'भो दण्डिन् ! मदाज्ञां त्वं करोषि वा न?' दण्डिनोचे 'देव ! स बिडालः पयो न पिबति, तेन जाने तस्य किमपि रोगादि जातमित्युक्तो राजा स्वयं बिडालस्वरूपमालोक्य जातविस्मयो दण्डिनमाह- 'भो दण्डिन् ! अहं तुष्टोऽस्मि, प्रदत्तैषा [मया ते] महिषी, परं सत्यं वद, कुतोऽयमोतुः पयो न पिबती'त्युक्ते दण्ड्यपि स्वमतिकल्पितं बिडालव्यतिकरं कथितवान् । ततस्तन्नैपुण्यप्रीतेन भूपतिनापि ग्रामादिदानेन सन्मानास्पदं विधाय विसृष्टो दण्डी स्वधाम जगाम। इति दण्डिनामप्रतिहारकथा ॥ ४ ॥ १. पुनर् - HRDAB || २. तुला- एकटा छला गोनू झा २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org