________________
तरङ्ग १/ कथा २/३ [मनो]हारिपुष्पप्रताने दग्धागरुमृगमदकर्पूरपूरसुन्दरे शयनमन्दिरे दुकूलललितायां पुष्पप्रकर-- कलितायां गण्डोपधानशीर्षोपधानरजस्त्राणरचितायां भोगिजनोचितायां शय्यायां स जावडः सुखं सुष्वाप। तस्य चोभयपार्श्वयोः काकतुण्डखण्डैः सङ्कला निधूमज्वलदङ्गारोल्लसन्ती हसन्ती समस्ति । यतः
कविमतिरिव बहुलोहा, सुघटितचक्रा प्रभातवेलेव ।
हरमूर्त्तिरिव हसन्ती, भाति विधूमाऽनलोपेता ॥ ३ ॥ तस्यां चाङ्गारशकट्यां जावडश्रेष्ठिनो दुकूलतूलिकाञ्चलं ज्वलन्तमेका कापि दिव्याम्बराभरणभूषिता दिव्यरूपा कामिनो विध्यापयन्त्यासीत् । [अर्थतत्सर्वं] तत्रैकस्मिन् कोणके सुप्तेनोद्धवेनाऽदर्शि । तदोद्धवोऽपि सहसोत्थाय तां पाणौ धृत्वा पृच्छति स्म, का त्वमित्युक्ता साऽवादीत्- 'कमलाहं सकलसुवर्णमणिमौक्तिकस्वामिनी अधुना त्वस्य जावडश्रेष्ठिन: किङ्करीभावेन स्थिताऽस्मि । तेन चेदानीं मम भोगोऽस्यैव सुकृतशालिनोऽस्ति तेन चास्याहं कर्मकरोचितं कर्म करोमि।' [तत् श्रुत्वा] सोऽवादीत्- 'अरे ! कमले ! ममापि गृहे सदावस्थितत्वात्त्वं ममापि दास्यसि, तेन च तव भोगेऽहमपि सज्जोऽस्मीति' कथिते सा स्माह'अरे द्विज ! पुण्यैर्विना मम भोगो न स्यात्, यतः
उप जिउं न याणेइ, रिद्धिं पत्तो वि पुण्णपरिहीणो ।
भरिअंमि जलेण सरे मंडलो [ पुण] लिहइ जिहाए ॥१॥ तेन चेन्मां त्वं विलससि तदा भवद्भालस्थले डम्भं दास्यामीत्युक्ते सोऽवोचत्तदाहमपि भवन्तीं प्रातर्बलिमिव गृहे गृहे निक्षिपामीत्युक्ते सावादीत्तदाहमपि स्ववचोऽवश्यं विधास्यामीत्युदीर्य सा तिरोऽभूत् । सोऽपि प्रातर्गृहमागतः प्रातः कायानुकूलपट्टकुलहिरण्ययज्ञोपवितमुद्रिकादिसुन्दरं वेषं विधाय दानभोगादिना श्रियं विललास । तदा च भक्तमादायागताभ्यः स्ववधूभ्यो ज्ञातपितृवृत्तान्तैः क्षेत्रस्थैः पुत्रैरचिन्ति, यदहो पिता मण्डपाचलादागच्छन् पथिभूतादिना गृहीतो ग्रहिलोऽभूत्, तेन यद्यसौ शीघ्र डम्भ्यते तदा स ग्रहिलतां मुञ्चति, न चेदसौ ग्रहिलो [नूनं] गृहं सम्पद्रहितं द्रुतं करिष्यति । इति विचिन्त्य तैर्गृहमागत्य [स] भाले डम्भितः, तदा सोऽपि दध्यावहो श्रिया स्वोक्तं कृतं, तेनैषा नूनं न मम भोग्येति मत्वा सोऽब्रवीत् 'अरे! पुत्रा! किमिदमनुचितं दुकुलादिवेषो मयि, इति आकर्ण्य-पुत्रैरयं सज्जोऽभूदिति पिता मुमुचे ॥ इत्युद्धवविप्रकथा ॥३॥ १. अन्यपक्षे बहुला ऊहा यस्यां, सुघटितानि चक्राणि-चक्रवाकानि यस्यां सा, (हसन्ती शकटी), विधु+ऊमा अनलोपेता २. शकट्यांसाः (साP) जा AHSD ॥ ३. सरे (निहि S) हिओ मं• PDB ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org