________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
कज्जलकलितनेत्रां ताम्बूलपूरितवक्त्रां परिहितविविधवर्णवसनां प्रपञ्चितपञ्चेषुस्मयकारिहसनां पुष्पपूरितधम्मिल्लां सगव सगर्भा श्रमणीवेषधारिणीमेकां रमणीमद्राक्षीत्
‘का त्वं ?' ' साध्व्यहमस्मि' ' का स्थितिरियं ? वेषेतरासङ्गता । पुंसा गर्भवती बभूव यदयं मार्गोऽस्मदीयो नृपः !' ॥ 'धिक् त्वां पापिनि! यत्त्वमेव चरितैरेतादृशैर्दूषिता' । तामुक्त्वेत्यगमत् गृहे विशददृक् श्रीश्रेणिकः श्रेणिकः ॥ ३ !!
'हे भद्रे कोऽयं तव वेषः ? किमिदं विरुद्धाचरणं श्रमणीमार्गव्यभिचारि चेत्युक्ता सोचे– 'राजन्नाहमीदृशी, किं तु सर्वा अपि श्रमण्य एतादृश्य एव सन्ति, यतोऽहं सर्वमिदं प्रकटं सृजन्त्यस्मि, तास्तु विजने विरुद्धमाचरन्ति' इत्युक्ते राजावादीत्- 'अरे पापिनि ! तवैवाभाग्यं येनेदृशं विरुद्धं ब्रूषे कुरुषे च' इति निर्भर्त्स्य पुरतश्चलन्तं श्रेणिकं चलत्कुण्डलाभरणभूषितः सुपर्वा प्रणम्य प्रोचे- 'हे मगधाधिप ! धन्यस्त्वं, यस्य सम्यक्त्वप्रशंसां शक्रः स्वयं कुरुते, मया तु तद्वचोऽश्रद्दधता त्वं परीक्षितोऽपि स्वसीमानं जलधिरिव नामुञ्च' इति तं संस्तुत्य हारं मृन्मयगोलकद्वयं च वितीर्य सोऽमरस्तिरोदधे । राजापि तद्दिनाद्विशेषतः स्वदर्शनं प्रभावयामास ॥ इति श्री श्रेणिककथा ॥ २ ॥
॥ ३ ॥ भाग्यविषये उद्धवकथा ॥
यैर्भोगान्तरायकर्म संनिकाचितं तेषां कृपणानां स्वयमुपार्जितस्यापि विभवस्य भोगो न स्यात् किन्तु पाणिस्पर्शरूप एव तद्भोग:, यतः
न दातुं नोपभोक्तुं च, शक्रोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥ १ ॥
तेन बलेनापि दत्ता भुक्ता च तेषामनर्थायैव श्री: स्यादुद्भवविप्रवत् । येषां न भोग्यो विभवो नराणां तद्भोगतस्ते स्युरनर्थभाजः । विप्रः पुरान्तं विलसन्नवाप, भालस्थले दम्भनमुद्धवो यत् ॥ २ ॥ तथाहि–मण्डपाचलदुर्गपरिसरे ब्रह्मपुरीपुर्यामुद्धवाख्यो द्विजो वसति, स चातीवकृपणत्वान्मणि-मौक्तिक - सुवर्ण रजत- धन-धान्यादिरूपे सत्यपि भूयसि विभवे भुङ्गे कदन्नं, परिधत्ते च पीवरं चीवरं, शेते च भने मञ्चके, न दत्ते भिक्षाचराणां सिक्थमपि, न विधत्ते याचकेष्वपि व्ययं एवमतीवदुः स्थित इव दिनानि नयन् अन्यदा शीत मण्डपाचलदुर्गवास्तव्यलघुशालिभद्रबिरुदधारिभोगपुरन्दरसाधुजावडधामनि व्याजवर्द्धितधनमार्गणायाऽऽयातो दवीयसीं स्वपुरीं मत्वा रात्रौ तत्रैवोषितः । तदा च मणिमण्डितकुट्टिमतले प्रलम्बितप्रबलमुक्तामणिजालपटले उपरिप्रपञ्चितविविधवर्णविताने सौरभ्यभ्रमद्भ्रमरझङ्कार
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org