________________
तरङ्ग १/कथा १/२ स तदनु पुत्रादीनां राजसन्मानं, पुत्रादिभिः कृतं स्वापमानं च १ *विज्ञाय स्वोत्सृष्टभोजनेन सञ्जात-कुष्ठछागाऽऽमिषेण सर्वमपि स्वकुटुम्बं कुष्ठदुष्टं विधाय सेडुको निशि गृहान्निर्ययौ । वने भ्रमन् नानौषधिमूलधावनपानीयपानेन प्रगुणीभूतो गृहमागत्य प्रोचे विप्रः पुत्रान्- ‘पश्यन्तु ममापमानफलमिदम् कुष्ठं,' ज्ञातोदन्तैः सपोरैरभाणि- · रे! पापिष्ठद्विजाधम ! त्वां धिगस्तु येन त्वं स्वकुलमप्येवं कलङ्कितवान् ।' इति स पौरैर्भर्त्सतो राजगृहमागत्य प्रतोलीदेशे स्थितः । तदा चात्र समवसृतानस्मान् वन्दितुमुत्सुको द्वारपालः सेडुकं तत्र विमुच्य समवसरणमगात् । इतः क्षुधित:* सेडुकोऽपि तदैव पुरदेवीपुरो ढौकितं प्रभूतमन्नपक्वान्नादि आकण्ठं भुक्त्वा रात्रौ तृषितो जलध्यानेन मृतो भेकोऽभूत् । अन्येयुः पुनरप्यस्मद्वन्दनौत्सुक्यभाजां पानीयहारिणीनां मुखादस्मदागमनवार्ताकर्णनेन जातजातिस्मृतिरस्मद्वन्दनार्थं बहिर्निःसृत्य पथि प्लवमानः स दर्दुरस्तव तुरङ्गपदप्रहतोऽस्मन्नमस्काराभिप्रायेण मृतो दर्दुराङ्काभिधो देवोऽभवत्। सोऽयं दर्दुराङ्कदेवोऽनन्यसाधारणां सौधर्माधिपतिकृतां तव सम्यक्त्वप्रशंसामश्रद्दधानस्त्वत्परीक्षार्थं कुष्ठिरूपं विधायात्राययौ, तेन च कुष्ठरसव्याजेन गोशीर्षेणाऽस्मद्भक्तिः कुर्वाणोऽभूत्।'
इति निशम्य पुरीं प्रति चलन् राजा कैवर्त्तककर्मकारिणमेकं मुनिमुदीक्ष्यैवमप्राक्षीत्
कन्थाचार्यशूथा ते? ननु शफरवधे जालमऽऽ शासि मत्स्यांस्तेऽमी मद्योपदंशाः पिबसि मधु? समं वेश्यया, यासि वेश्याम् ? ॥ दत्त्वाऽरीणां गलेऽही किमु तव रिपवो? येन ग्रन्थिं छिनद्मि । चौरस्त्वं ? द्यूतहेतोः कितव इति कथं येन दासीसुतोऽस्मि ॥ २ ॥
एवं सप्तव्यसनाविष्करणपरायणमस्य वचनमाकर्ण्य राजा व्याजहार, भो भिक्षो! मुञ्चेदं दुर्गतिकारणं कुकर्मेत्युक्तः स स्माह, हे राजन्नाहमेवैतादृशः, किंतु सर्वेऽपि गौतमाद्याः श्रीवीरविनेया एतादृशा एव ।
इदं निशम्य तवैवाभाग्यं, ते तु सर्वेऽपि गङ्गाप्रवाहा इव पुण्यस्वरूपा इति तं निर्भय॑ पुरीं प्रविशन् श्रेणिको यावकरसरञ्जितचरणां यथौचित्यं कण्ठाद्यवयवेषु निवेशिताभरणां
1. AHR I * *चिह्नद्वयमध्यवर्तिपाठस्थाने मु. मध्ये इदृशः पाठः दृश्यते-विज्ञाय सञ्जातेाकुलहृदयः स्वोच्छिष्टभोजनेन छागमेकं परिपोष्य स्वपुत्रान्प्रत्येकदा कथयामास, भो पुत्रा अयं छागो हत्वा कुटुंबेन भक्षणीय इत्युक्त्वा स सेडुको गृहात्तीर्थयात्रामिषेण निर्ययौ। पश्चाद्भक्षितच्छागमांसं सर्वमपि तत्कुटुम्बं कुष्ठदुष्टं सञ्जातं। अथ स सेडुको वने भ्रमन् क्वचिन्नानाविधौषधीमूलधावनपानीयपानेन नष्टकुष्ठः प्रगुणीभूतो हृष्टःस्वगृहमागत्य कुष्ठप्लुष्टगात्रान् पुत्रादीन् कथयामास "रे दुष्टा अथ पश्यत ममापमानफलम्।" एवं ज्ञातोदन्तैः सपोरैः पुत्रैरभाणि रे पापिष्ठ द्विजाधम! त्वां धिगस्तु, येन स्वकुलमप्येवं कलङ्कितं, इति तै शं निर्भर्त्तितोऽसौ राजगृहनगरमागत्य प्रतोलीदेशे स्थितः । इतस्तत्र वयं समवसृता आसन्, तदास्मान् वंदितुमुत्सुको द्वारपालो नगरद्वाररक्षायै तं सेडुकं तत्र विमुच्य समवसरणमागात्, इतः क्षुधित:- मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org