________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते "हे देव! शृणु- अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराजलक्ष्मीः। एकत्र जन्मनि कृतं भवता तदत्र, जन्मत्रये यदकरोत् पुरुषः पुराणः" ॥ १० ॥
एतदाकर्ण्य भृशं तुष्टः पार्थिवः प्राह-“हे धनपाल ! यथारुचि वरं वृणु, स स्माह "हे देव! यदि तुष्टोऽसि तर्हि जीवितं देहि" इति याचितो नृपः प्रोवाच "तत्तु तवास्त्येव, केनाप्यादत्तं नास्ति," ततस्तेनोचे "देव द्रव्यतो विद्यते, परं भावतस्तु देवपादैरादत्तमेवास्ति' तदनु राजाऽवादीत्, "कोपानुसारिवचांस्यब्रुवाणस्यापि मम मानसिको भावः कथमज्ञायि?" सोऽवदत् "स्वामिन् ! युष्मदिङ्गिताकारेणाभिप्रायो बुद्धः, यबुद्धेः फलं परेङ्गितज्ञानमेव। यतः
उदीरितोऽर्थः पशुनापि गृह्यते । हयाश्च नागाश्च वहन्ति नोदिताः ॥ अनुक्तमप्यूहति पण्डितो जनः । परेङ्गितज्ञानफला हि बुद्धयः ॥ ११ ॥ किञ्च- आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च, ज्ञायतेऽन्तर्गतं मनः ॥ १२ ॥ इत्यादिचातुरीतुष्टेन राज्ञा वसन-धन-धान्य-मणि-मौक्तिक-करि-तुरग-ग्रामादिदानैविशेषतः प्रसादं विधाय विसृष्टो धनपालः स्वमालयं समेत्य तत्प्रभृति विशेषेण श्रीजैनधर्ममाराधितवान् इति धनपालपण्डितकथानकम् ॥ १॥
॥२॥सम्यक्त्वदाढये श्रीश्रेणिककथा ॥ एकत्र कञ्चिच्चलितं विलोक्य, सर्वत्र तुल्या न भवन्ति सन्तः ॥
वीक्ष्यर्षिमेकं कुकृतिं न जज्ञे, सर्वेषु तुल्यो मगधाधिराजः ॥ १ ॥ किञ्च सम्यक्त्वसहितैरेकत्र साधुसाध्वीश्रावकश्राविकादौ किञ्चिद्विरूपाचरितं विलोक्य सर्वेषु सदृशैर्न भाव्यं श्रेणिकवत् । तथा हि- अन्यदा राजगृहोद्याने समवसृतं श्रीमहावीरं प्रणम्योपविष्टेषु श्रेणिकादिषु एकः कोऽपि कुष्ठी स्वकुष्ठरसेन भगवत्पादयोर्लेपं कुर्वाणोऽभूत् । तदनुचितं वीक्ष्य श्रेणिको दध्यावहो ! अस्य पापिनो दुष्टता! इति ध्यात्वा तन्मारणाय तेन प्रेरितः स्वसेवकस्तत्कार्ये निष्फलीभूय पश्चादागत्य राजानं विज्ञपयामास, "हे स्वामिन् ! यदसौ कोऽपि देवो व्योममार्गेणोत्पत्य क्वापि ययौ, वयं न विद्मः'। तदनु राज्ञा भगवान् पृष्टः "हे स्वामिन् ! कोऽयं ? केयमस्यासमञ्जसता चेति ?' भगवानाह- "नासौ कुष्ठी नाप्यस्येयमसमञ्जसता, किन्तु महर्द्धिकोऽसौ दर्दुराङ्कनामा देवः श्रीखण्डेनाऽस्मत्पूजां सृजन्नभूदिति ।" कथमसौ देवोऽजनीति राज्ञा पृष्टो भगवानूचे
कौशाम्ब्यां पुरि सेडुको नाम विप्रः, पत्नीप्रेरितः शतानीकं राजानं सेवितवान्। अन्यदा तुष्टेन भूपेन तस्य सकलेऽपि पुरे प्रतिगृहं सदिनारं भोजनं दापितम् । दिनारलोभेन वान्त्वा वान्त्वा भुञ्जन् स कुष्ठी जातः, ज्ञातव्यतिकरेण राज्ञा च स सभायामागच्छनिषिद्धः । १. तुला- त्रिषष्टिशलाका पु. च. १०/९/५९ तः, उपदेशप्रासादे व्या. ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org