________________
तरङ्ग १/कथा १ इदमाकर्ण्य धनपालनेत्रनिष्कासनं मनसि निश्चित्यान्तर्निहितरोषो राजा पुरं प्रत्यचालीत्, मार्गे गच्छन् यज्ञमण्डपे यज्ञस्तम्भे बद्धानां छागानां गिरं निशम्य राजा कविराजमित्यूचे, "भोः किं वदन्त्यमी?" स प्राह
"अस्मान् घ्नन्ति पदे पदे बलिकृते दग्धैश्च जग्धैस्तृणैरस्मत्कुक्षिरदक्षदक्षमनुजैर्ना मोच्यते पश्विति ॥ अम्बाजामिकलत्रभेदविकलाः सक्षुत्पिपासा वयं । तेनास्मानय देव! देवसदनं शंसन्त्यजास्त्वामिति ॥ ६ ॥' [शार्दूलवि०]
इति श्रुत्वा पुनरपि कोपमन्तर्निधाय धनपालमाललाप श्री भोजः, "किं कथयन्त्यमी? स प्राह- 'प्रभो ! पृच्छाम्येतानित्यभिधाय तदभ्यणे गत्वा राजसमीपमागत्यावगणितजीवितव्यो धर्मरक्षां कक्षीकृत्य धनपालः प्राह 'देव! छागो विज्ञपयतीति
नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया । सन्तुष्टस्तृणभक्षणेन सततं साधो! न युक्तं तव ॥ स्वर्गं यान्ति यदि त्वया विनिहता यागे ध्रुवं प्राणिनो । यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥ ७ ॥ [धनपालकाव्ये ७/१३]
इदमप्याकर्ण्य भृशं रुष्टो राजा धनपालकुलनाशं निश्चित्य पुरीं प्रविशन् गोपुरपुरस्तात्करलग्नबालिकां कम्पमानमस्तकामेकां वृद्धां स्त्रियमालोक्य कविराजमुद्दिश्येति पूर्वार्द्धमभिधत्ते स्म
"कर कंपावइ सिर धुणइऽ बुड्डी काहु कहेइ ? ।" सोऽपीत्युत्तरार्द्धमवदत्- 'हक्कारंतह जमभडह, नं नंकार करेइ ॥८॥ [दोहो]
तदनु किं वक्त्येषा वृद्धा? इति धनपालं प्रोचे । तदेङ्गिताकारानुसारेणावगतजिह्वानेत्रकुटुम्बोच्छेदनपरायणभूपाभिप्रायः समुत्पन्नानृपमनस्तोषणोपायश्च धनपाल: स्वप्रतिज्ञापालनपुरस्सरमिदमाह- "हे स्वामिनियं लघीयसी बालिका देवपादानोपलक्षयति, तेन सा वृद्धां पृच्छति हे मात: ! सकलैश्वर्यवर्यः कोऽयमिति बहुशः प्रत्युत्तरं दातुमशक्ता मस्तक-धूननेनैषा निषेधं कुर्वाणास्ति, "तत्कथमिति" भूपपृष्टो धनपालो व्याजहार, यथा
"किं नन्दी किं मुरारि: किमु रतिरमणः किं नलः किं कुबेरः । किं वा विद्याधरोऽसौ किमुत सुरपतिः किं विधुः किं विधाता ॥ नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैषः ।
क्रीडां कर्तुं प्रवृत्तः स्वयमपि च हले ! भूपतिर्भोजदेवः ॥ ९ ॥ [स्रग्धरा] इति चित्तचमत्कारकारकं काव्यमाकर्ण्य गतकोपो भूपः भूयो भूयः प्राह
"कथय कथं मुरारेभगवतः सादृश्यं मम?'' पुनरपि कविचातुरीचञ्चुः कविरवादीत्, १. स्ताद्बालिकाकरलग्नां कAHDRS ॥ २. हंकारंता यम मणइ-उपदेशप्रासादे व्या. २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org