________________
॥ १ ॥ तरङ्गः प्रथमः ॥
॥ १ ॥ धर्मदृढतायां श्री धनपालपण्डितकथा ॥
तेनैतद् दुरन्तदुरितकारिदुरितप्रशंसाद्यनेकदूषणैरदूषितमेव जीविताऽवधि स्वीकरणीयं, धनपालपण्डितवत्, तत्कथा यथा
न शुद्धसिद्धान्तविरुद्धवाक्यं, प्राणप्रणाशेऽपि वदन्ति सन्तः ।
ज्ञात्वापि भूपाद्भयमुज्जगार, यथा न धीमान् धनपालविप्रः ॥ १ ॥ लघुकाश्मीराऽपरनामधारिणि धारानगरे न्यायमार्गाऽकरालमरालबालाम्भोजः श्रीभोजः प्रजां पालयति । अस्ति च परमार्हच्छिरोरत्नधुरीणः सकलशास्त्रपारीणः श्रीधनपालपण्डितः पुरोहितः, अन्यदा धनपालाद्यनेककविकुलकलितः प्रभूतभूपालपरिवारितः श्रीभोजो मृगयार्थमरण्ये भ्रमनेकां सग मृगीं निविध्याऽपरस्मिन् पार्श्वे पतितं स्वं शरं निरीक्ष्य जातस्वदोर्बलप्रबलगर्वः कविराजकविमुद्दिश्येति पदद्वयीं प्रतिपादितवान् । यथा
" किं कारणं तु कविराज ! मृगा यदेते । व्योम्न्युत्पतन्ति विलिखन्ति भुवं वराहा: ? । " सोऽपि च राजचित्तचमत्कारि चकारोत्तरार्द्ध
“देव! त्वदस्त्रचकिताः श्रयितुं स्वजाति-मेके मृगाङ्कमृगमादिवराहमन्ये" ॥ २ ॥ एतच्चातुरीचमत्कृतचित्तः श्रीभोजो धनपालमिति स्माह, "हे विद्वन् ! वर्णय मद्भुजाबलं " धनपालोऽपि जिनवचनरञ्जितमनाः कृतपापप्रशंसाप्रत्याख्यानो राजभयमवज्ञाय धनकुटुम्बममत्वं च विमुच्येत्यूचे, यथा
" रसातलं यातु तदत्र पौरुषं, 'कुनीतिरेषा शरणो ह्यदोषवान् । निहन्यते यद्बलिनापि दुर्बलो, हहा महाकष्टमराजकं जगत्" ॥ ३ ॥
इदं काव्यमाकर्ण्य राजा दध्यौ - अहो मद्भुजाबलवर्णनं तु दूरेऽस्तु, अराजकं जगदिति पदेनाहं सन्नप्यनेन दुरात्मना स्वामिद्रोहिणा चाऽसन् कृतः, इति क्रुद्धो धनपालजिह्वाछेदनं मनसि निधाय गूढकोपः पश्चाद्वलमानः स्वकारितसरस्तीरमागतः श्रीभोजः सरोवर्णनाय कविराजमाह, सोऽपि वर्णितवान् । यथा
"हंसैर्लब्धप्रशंसैस्तरलितकमलैः र्नी रैरन्तर्गभीरैश्चटुलबककुलग्रासलीनैश्च पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च
र्भाति प्रक्रीडनाभिः क्षितिप! तव चलच्चक्रवाकस्तटाकः 11 8 11 तदनु सरोवर्णनाय राज्ञा प्रोक्तो धनपालः प्राह, यथा
" एषा तटाकमिषतो वरदानशाला, मत्स्यादयो रसवतीप्रगुणा बभूवुः । पात्राणि यत्र बक-सारस-चक्रवाकाः, पुण्यं कियद्भवति तत्र वयं न विद्मः " ॥ ५ ॥
१ AHRSI च-मु. ॥ २ क्वनीति० इति प्रभावकचरित्रे पृ. १४३, योगशास्त्रवृत्तौ २ / २४ ॥
Jain Education International
प्राप्तरङ्गैस्तरङ्गैमीनैः ।
गीतै
??
For Private & Personal Use Only
www.jainelibrary.org