SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तरङ्ग १/मङ्गलाचरणम् धनदो धनमिच्छूनां, कामदः सर्वकामिनां । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ २० ॥ [धर्मबिन्दौ १/२] धर्मादेव मदान्धसिन्धुरघटासङ्घट्टिसम्पत्तयो, धर्मादेव मृगाङ्कमण्डलगलत्पीयूषपुण्यं यशः। धर्मादेव कलाकलापकलना लीलावतीसङ्गमो, धर्मादेव समस्तशस्तसुभगस्वर्गाऽपवर्गोदयः ॥२१॥ दानं च शीलं च तपश्च भावो, धर्मश्चतुर्द्धति जिनैरवादि ।। चतुर्गतिप्रस्थितिरोधयोधः, सतामशक़ निरपाय एषः ॥ २२ ॥ चतुर्विधोऽप्येष सम्यगाराधितो धर्मोऽवश्यमेव शिवसुखं विधत्ते, यतः दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणयानपात्रं, धर्मश्चतुर्द्धा मुनयो वदन्ति ॥ २३ ॥ स च सम्यक् सम्यक्त्वमूल एवाऽतुलकल्याणकलितसार्वभौमस्वर्गापवर्गश्रियं विश्राणयति । यत:मूलं धर्मतरोः, स्थूलं, सम्यक्त्वं जगदे जिनैः ।नृ-देव-शिवसम्पत्तिः, पत्र-पुष्प-फलानि च ।।२४॥ तेन स्वर्गापवर्गाद्यनर्गलसुखकांक्षिभिर्भव्यैस्तत्र प्रपञ्चितप्रौढप्रयत्नैर्भाव्यमिति, तच्च सम्यक्त्वं देवगुरुधर्मसम्यग्श्रद्धानरूपं, यत:या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधी: शुद्धा, सम्यक्त्वमिदमुच्यते ॥ २५ ॥ देवादिलक्षणं चेदं - सर्वज्ञो जितरागादि-दोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ २६ ॥ महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ २७ ॥ दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ २८ ॥ [योगशास्त्रे २/२,४,८,११] इत्येतत्सम्यक्त्वेन विकलंसकलमपि सुकृतकलाकलापकौशलंपलालपूलायते । यत:ध्यानं दुःखनिधानमेव तपसां सन्तापमानं फलं, स्वाध्यायोऽपि हि वन्ध्य एव कुधियां तेऽभिग्रहाः कुग्रहाः । अश्लीला खलु दानशीलतुलना तीर्थादियात्रा वृथा, सम्यक्त्वेन विहीनमन्यदपि यत्तत्सर्वमन्तर्गडु ॥ २९ ॥ [शार्दूलविक्रीडितम्] किञ्चैतन्मुहूर्त्तमात्रमपि स्वीकृतमनन्तदुःखव्यालोलकल्लोलमालाकरालसंसारार्णवपारं प्राणिपरम्परां प्रापयति यतः अन्तमुहूर्तमपि यः समुपास्य जन्तुः, सम्यक्त्वरत्नममलं विजहाति सद्यः । बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद्विभ्रतश्चिरतरं किमुदीरयामः ॥ ३० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy