SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २ श्री कथारत्नाकरे श्री हेमविजयरचिते अस्माभिरञ्जलिरलं खलु दुर्जनेभ्यस्तेभ्यः कृतः परविकत्थनकोविदेभ्यः । येषामधाद् गुणलवोपि न वासमङ्गेऽनाप्तावकाश इव दोषचयैर्निरुद्धे ॥ ९ ॥ लोलैः खलैः स्खलितमप्युदयप्रयातैः किं सद्भिरादृतमिदं न हि शास्त्ररत्नम् ? । किं शोष्यमाणमपि नो वडवानलेन वारान्निधिं नयति वृद्धिमनुष्णरोचिः ॥ १० ॥ तत्प्रवर्त्तकनिवर्त्तकवार्त्ता - बन्धबन्धुरमहं विदधामि I वाङ्मयं रसमयं समसभ्यलोककोककुलकोकवयस्यम् ॥ ११॥ क्वचित्प्रवृत्तिं क्वचिदप्रवृत्तिं शृण्वन्तु चैतासु कथासु सभ्याः | स्थितिः श्रुतापि द्विविधा विशुद्धा - ऽविशुद्धयोः किं न पथोः शिवाय ? ॥ १२ ॥ गीताङ्गनाकनकसूक्तिकथाऽशनानि षट् शोभनानि विबुधाऽविबुधेष्वमूनि । वाल्लभ्यमेषु समुपैति समं समेषां यच्चित्तवृत्तिरलिनीव सरोरुहेषु ॥ १३ ॥ कथारत्नाकरं कुर्वे कथारत्नौघबन्धुरम् 1 आदीयन्ते सतां स्तोमै - रत्नानीव यतः कथाः 11 28 11 कथारत्नाकरो भावी, समीचीनोऽयमत्र यत् । दोषाकरकरैः स्पृश्य-मानः सौन्दर्यमेष्यति ॥ १५ || कुत्राप्येतासु पाठे स्या- द्विसंवाद: कथासु चेत् । न दोषस्तन्मदीयो यद् यथाऽऽकर्णितकारिणि ॥ १६ ॥ ३ श्रुताः काश्चित् काश्चित् स्वमतिरचिताश्चित्ररचनाः । चयाऽऽकीर्णाः काश्चित् पुनरधिगताः शास्त्रनिधितः । निबध्यन्ते नानाविधरसकथाः कौतुकवशा दिमाः सभ्यस्वान्तस्थितिसुरसरिच्छङ्करशिराः ॥ १७ ॥ [ शिखरिणी] चेद्वैराग्यतरङ्गरङ्गनिरतिश्चेत्सूक्तिमुक्तास्पृहा । चेच्छृङ्गारमुरारिसङ्गमरुचिश्चेच्चातुरिवारिधीः । चेदाश्चर्यकथाप्रथामृतधृतिश्चेद्वक्तृताश्रीरति स्तद्यत्नेन निषेव्यतां किल कथारत्नाकरोऽयं जनाः ॥ १८ ॥ श्रियेऽस्तु श्रीमहावीरः कामितार्थसुरद्रुमः । यद्गीर्गौरीव गौराङ्गी जज्ञे सर्वज्ञहर्षकृत् ॥ इह हि सकलकल्याणकारणं सर्वज्ञोपज्ञ एव धर्म:, यतः - १. HRS I पाठैः A मु. ॥ २. दोषस्तन्मदीयो यद्यथा RS ॥ ३ श्रुताः काश्चिल्लोकात् स्व-पर विषया चित्ररचना च याकीर्णा: SRH II ४. RHSI चातुरीचारुधी: मु. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy