SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥ऐं नमः ॥ ॥श्रीशंखेश्वरपार्श्वनाथायनमः ॥ ॥सद्गुरुदेवश्रीभद्र-विलास-ॐकार-अरविंद-यशोविजयसूरिभ्यो नमः ॥ श्रीमद् हेमविजय-गणिवर-रचितः श्रीकथारत्नाकरः जयति रजनिरत्न-स्थानरत्नारत्न-द्युतिपरपरभागं ज्योतिरुद्द्योतिताऽऽशम् । करतलनिहितेवाऽशेषविश्वव्यवस्था समजनि समवृत्तेोगिनां यत्प्रसत्तेः ॥ १ ॥ त्रिदशपतिपुरन्ध्रीधोरणीगीतकीर्ति-र्भवतु सुभगमूर्तिस्त्रैशलेयः श्रिये वः । विविधरसरहस्या प्रादुरासीत्कथानां, ततिरघहतिरब्धेर्वीचिवीथीव यस्मात् ॥ २ ॥ [मालिनीवृत्तम्] श्री गौतमस्वामिमुखा गणेशाः, यच्छन्तु वः शं शमिनामधीशाः । अस्थात्कथास्वर्हदुदीरितासु, येषां मनोऽलीव मृणालिनीषु ॥ ३ ॥ [इन्द्रवज्रा] मातर्भारति! मामनन्यशरणं कारुण्यकेलिस्पृशा । पश्य प्रेमदृशा सुधौघसदृशा कूर्मीव सौवार्भकम् । यन्मूर्द्धा सुभगीकृतस्तव दृशां दक्षैः कटाक्षेक्षितैस्तैरेवातिशयेन कोविदकुलालङ्कारहीरायते ॥ ४ ॥ [शार्दूलविक्रीडितम्] वाचामधीश्वरि ! करं कुरु तावकं मन्मौलौ भवच्चरणरेणुकणैः सचित्रे (पवित्रे)। -एताः कथाः कथयतः परिषत् प्रमोदान्निर्यान्ति यन्मम मुखाद्वचसां विलासाः ॥५॥ _ [वसन्ततिलका] विश्वविश्वसरसीरुहसूर्या-स्ते जयन्ति गुरवो गुणिधुर्याः । यानपात्रमिव जाड्यपयोधेः, 'पारमापमहमाप्य यदुक्तिम् ॥ ६ ॥ ते सन्तु सन्तो मयि धीमतां महा-हास्यास्पदे दत्तदृशः कणीयसि । सूर्यांशुभिः पद्म इवालिनां नृणां: सेव्यः कणीयानपि यैरुरीकृतः ॥ ७ ॥ दद्मः परोपकृतिकर्मसु कर्मठानां, पादारविन्दमिह मूर्द्धनि सज्जनानाम् । ये प्रीणयन्ति भुवनानि वचोविलासै-र्वाराम्भरैर्जलधरा इव काननानि ॥ ८ ॥ [वसन्ततिलका] १. AHRI प्रमोदान्नि मु. ॥ २. ARSI गुण धुर्याः मु. ॥ ३. RHASI पारमापमहमाशु यदूक्तेः मु.॥ ४. RS| सन्तः श्रुतशालिनो -HA मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy