________________
तरङ्ग १०/ कथा २३२ / २३३
सोऽस्माकं नरनाथ ! मस्तकमणेदौर्गत्यनामा सुहृत्
त्वद्दानाऽम्बुनिधिप्रवाहलहरीमग्नोऽद्य सम्भाव्यते ॥ २ ॥
वदार्यगुणहारिणाऽनेन काव्येन कामं सन्तुष्टो राजा प्राग्दत्तदानमितं दानं पुनरपि तस्मै ददौ । रविचन्द्रोऽपि विशेषतो लब्धराजसन्मानो निजं स्थानमाससाद । ॥ इति मतिविषये रविचन्द्रनामकविकथा ॥ २३२ ॥
॥ २३३ ॥ मन्त्रशक्तौ मन्त्रादिपरीक्षकचटुवणिकथा ॥ मणि - मन्त्र - यन्त्र-तन्त्रौषध्यादीनां माहात्म्यमचिन्त्यं, यतः -
२६५
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । निर्धना पृथिवी नास्ति, आम्नायाः खलु दुर्लभाः ॥ १ ॥ किं बहुना ? मृतानामपि मन्त्रशक्तिः स्फूर्तिमती भवति, यतः -
मान्त्रिका आत्मनो वैरं, मृता अपि त्यजन्ति न । यन्मृतोऽपि चटुश्चक्रे, भस्मसात् शाकिनीद्वयम् ॥२॥ तथाहि - मालवदेशवर्तिनि वीचीवाटाख्यविषये गुञ्जालग्रामे वीरचन्द्रो नाम राजा, तत्र च ग्रामे चटुनामा [ मन्त्र - यन्त्रादि ] परीक्षको वणिक् वसति । तत्र च शाकिनीनामुपद्रवं भूयांसं विलोक्याऽन्यदा मन्त्र - यन्त्र-तन्त्रौषधादिप्रबलशक्तिमान् स चटुपरीक्षको राज्ञाऽभ्यधायि, भो चटो ! शाकिनीभिरत्र भूयान् लोकः पराभूतस्तेन तन्निग्रहं कुरु, अत्रार्थे च यथातथा निग्रहं कुर्वतस्तव कोऽपि किमपि न कथयिष्यति । निखिलोपद्रवविधुविधुन्तुदो मम हस्तस्तव मस्तकेऽस्ति । अथ चटुरप्यचिन्त्यमन्त्रशक्तिभिर्निराकृताऽनेकदोषो राजाऽऽज्ञया तद्ग्रामसीमानमुल्य चतुर्ष्वपि दिक्षु कीलिका निधाप्य दक्षिणस्यां दिशि महान्तमेकं लोहमयमावासं कारयामास । अथ स चटुस्तत्राऽऽगारे प्रविश्य ज्वलदङ्गारभासुरायां महत्यां गर्तायां स्वं वाममंहिं विमुच्य वह्निमुद्दीपयामास । यथा यथा तत्पादो ज्वलति, तथा तथा तद्ग्रामवासी सर्वोऽपि शाकिनीवर्गो ज्वलदहिः कामोवी॑कृतपरिधानवस्त्रो मुक्तकेशः प्रकामं पूत्कुर्वंस्तद्गृहद्वारे स्थितस्तमूचे, हे चटो ! वयं यामोऽस्मान्मुञ्चेत्यभिहितः स स्माऽऽह, अस्य ग्रामस्य सीमानमुल्लङ्घ्य गतासु भवतीषु वह्नितोऽहं पादं निष्कासयिष्यामीति तदुक्तमाकर्ण्य गतासु तासु चटुर्गतः पादं निष्कास्य दुग्धेन प्रक्षाल्य च स्वं स्थानमाययौ । अथ कस्यचिन्माता, कस्यचित्सुता, कस्यचिद्भगिनी, कस्यचित्पत्नी, कस्यचिन्मातृष्वसा, कस्यचित्पितृष्वसा चेति सर्वा अपि ताः शाकिन्यः प्रादुर्भूताः सर्वत्र निन्दाऽऽस्पदं बभूवुः । अथ तासां सर्वासां मध्ये भृशमुत्कटं शाकिनीद्वयं चटुमादातुं मन्त्रं विधाय शनिदिने स्नात्वा प्रभाते तस्थिवांसं तं चटुं प्राह, हे चटो ! मया धान्यं विक्रीतं तन्नाणकमिदमाददामि विलोक्य समर्पय। सोऽपि तथैवोद्घाटितमूर्धां तामाह, हे सुभगे ! शुद्धमिदं नाणकं गृहाण । एवं तेन त्रिरुक्ते चैका शाकिनी तं गृहीत्वा ययौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org