________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
एवं द्वितीयस्यामपि शाकिन्यां गतायां तस्योदरे महती पीडा जाता । अथ बढ़ प्रादुर्भूतोदरपीडश्चटुर्दध्यौ, युवां गृह्णीत चेति मद्वचसैवाऽहं शाकिनीभ्यां गृहीत:, तेन मम जीवितव्यं सर्वथा नास्तीति मत्वा दिवसाऽवशेषे स चतुरोऽपि निजान् पुत्रान् प्राह, भोः पुत्रा ! अद्याऽर्धरात्रे
मृतिरिति मम चितायां मनुष्यत्रयदहननिमित्तं काष्ठं निधेयं, मन्मन्त्रिताश्चाऽमी माषा अर्धज्वलिते मयि मच्चिताऽन्तः क्षेप्या इत्यभिधाय मृते च तस्मिंस्तत्सुतैस्तथैव विहिते विकरालाऽऽकारधारिण्यौ प्रकामं पूत्कारकारिण्यौ ते शाकिन्यौ तच्चिताऽन्तः पततः स्म । अहो ! अस्य मन्त्रशक्तिरिति लोकैरप्यभिदधिरे । ॥ इति मन्त्रशक्तौ मन्त्रादिपरीक्षकचटुवणिक्कथा ॥ २३३॥
२६६
॥ २३४॥ एकेनैवोत्तरेण बहूनां संशयानां निराकरणे फूलडीकथा ॥ एकमप्यर्हद्वचनं जीवा -ऽजीव- पुण्या-ऽपुण्येहलोक - परलोक-स्वर्गा-ऽपवर्ग-सुखदुःखादिनानासंशयान् सर्वेषां नरा - ऽमर - तिरश्चां युगपन्निराकरोति । यतः - अप्येकमर्हद्वचनं जहार, यत्संशयाऽऽलिं युगपज्जनानाम्
1
श्रुत्वा कथां वल्लववल्लभाया, भिल्लस्य च स्यात् किमु तत्र चित्रम् ? ॥ १ ॥ तथाहि—संगधरग्रामे गो-महिषी - वृषभादिबहुपशु श्रीमान् बूढणाह्व आभीरः, तस्य च फूलडीप्रमुखाः पञ्चदश कलत्राणि, तासां सर्वासां परस्परं भूयसी प्रीति:, तेनैताः सर्वा अपि फूलडीमेव बहुमन्यन्ते, सर्वत्र तस्या एव वचनमेताः सर्वाः प्रमाणीकुर्वते । बूढणोपि फूलडीमेव प्रतिदिनं बहुमन्यते । एकदा शरत्काले गोश्चारयितुं गतो बूढणः, तदा सर्वा अपि ता वनविनोदविलोकनोत्सुकास्तदर्थं भक्तमादाय पुरपरिसरे पतिपार्श्वे जग्मुः । तदा च भोजनं कुर्वता बूढणेन फूलडीप्रमुखास्ताः सर्वा अप्यनुक्रमेणाऽभिदधिरे ।
कथमद्य क्षिप्रचटिका भूयसी राद्धा ? १, कथमद्य तक्रे मधुरिमा स्तोकः ? २, सा प्रातिवेश्मिकी सश्मश्रुः स्त्री गृहे वर्तते ? ३, अथ तव समाधिरस्ति ? ४, कथमद्य कर्कोटकशाकोऽयमक्षतः पाचितः ? ५, कथमियं शुनी व्याजुघोट ? ६, सा महिषी गर्भवती जाता ? ७, त्वमद्य मार्गे श्रान्ताऽसि न वेति ? ८, अथ सत्रागारे भोजनं दीयते ? ९, कथमद्याऽनेन वाहेन पयः प्रचुरमेवेति ? १०, तव धम्मिलः सज्जीकृतोऽस्ति ? ११, कर्णयोः कुण्डलद्वयं परहितं ? १२, तस्य दिवाकीर्तेर्गृहं ज्ञातं ? १३, गृहाणाऽमूनि फलानि १४, एता अजा गणिताः ? १५, इति क्रमेण पृष्टानां सर्वासामासां भृशं माननीयवचना फूलडी सर्वेषाममीषां प्रश्नानामुत्तरं युगपदेकेन शब्देन दत्ते स्म । 'पाली नत्थि इति' तथाहि तद्व्यक्तार्थस्त्वयं
कथं क्षिप्रचटिका बह्वी राद्धा इत्यत्र तन्मानविषयिणी पाली नास्ति, मापकपात्रविशेष: पाली इति लोके गीयते इत्येकप्रश्नोत्तरं १, तक्रे मधुरिमा कथं स्तोक इत्यत्र बदरीबब्बुलादिपत्रभवस्तिर्यग्भक्ष्यविशेषः पालिरिति सा नास्ति इति द्वितीय० २, सश्मश्रुकास्त्री पालिरिति तेन सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org