________________
२६४
श्री कथारत्नाकरे
श्री हेमविजयरचिते
॥ २३२ ॥ मतिविषये रविचन्द्रनामक विकथा ॥ कविकलाकलापकौशलाऽवहेलितसुरगुरूणां प्रज्ञागुरूणां कवीनां वचांसि सर्वेषां प्रीतये
भवन्ति, यतः -
बलिहारी कविअण-तणी, जस मुख अमिय झरंत । नयण मिलें मनडूं ठरे, श्रवणे अमीय झरंत ॥ १ ॥
अपि च
यज्जाह्नवीमेवमुदीरितेन, जग्राह दानं द्विगुणं रवीन्दुः । तच्चातुरीचोरितचित्तकर्णा-दाश्चर्यकृत्काव्यमहो कवीनाम् ! ॥ २॥
तथाहि— मालवदेशशिरोऽवतंसमण्डपाचलसमीपवर्तिधारानगरधराधीशभोजराजस्यौदार्यगुणकीर्तिः सर्वत्र प्रथिता, इतश्च धाराधिपः श्रीभोजराजः कविकलाचमत्कृतचेता एक एव दानं दत्ते, न पुनरिति वाराणसीवासी रविचन्द्रनामा द्विजन्मा श्रुत्वा दध्यौ, नाऽसौ राज्ञो दोष:, किन्तु कवीनामेवेति मत्वा रविचन्द्रोऽप्यनुक्रमेण भोजसभां समेत्याऽऽशीर्वादं चाऽदत्त्वा स्थितो राज्ञाऽभिदधे, हे कवे ! कथमाशीर्वादो नाऽदायि ? तेनोक्तं हे देव ! सकलक्ष्मापालशिरोरत्नं कीर्तिकौमुदीविशदीकृताऽखिललोकं च त्वां वीक्ष्य चिन्ताचूर्णितचित्तस्य ममाऽऽशीर्वादो विस्मृतः, संशयद्वयं च नष्टम् । कथमिदं संशयद्वयमिति राज्ञाऽभिहितः सोऽभिदधे, निरालम्बने गगनाऽङ्गणे कथमेषा सुरसरित् ? श्यामलेष्वपि निःशेषेषु शैलेषु कथमयं कैलासो धवल संशयद्वयमाजन्मवर्ति मम समजनि । अथ कथं नष्टं तत्संशयद्वयमिति राज्ञा पृष्टः सोऽब्रवीत् - धाराsधीशधराधिनाथगणने कौतूहली यामयं, वेधास्तद्गणनाच्चकार खटिकाखण्डेन रेखां दिवि । सा चेयं त्रिदशाऽपगा समभवत्त्वत्तुल्यभूमीधवा - ऽभावात्तत्त्यजति स्म सोऽयमवनीपीठे तुषाराऽचलः ॥ १ ॥
अथ श्रीभोजोऽप्यतिचमत्कारकारिणाऽनेन काव्येन प्रकामं प्रमनाः काव्यवर्णसङ्ख्यया सुवर्ण-करितुरग-रथ-नगर- कनकलक्षदानेन तं सदकरोत् । अथ रविचन्द्रोऽपि भोजात्तदैव पुनरप्यधिकं दानमादित्सुस्तत्कालसमुत्पन्ननवीनार्थगर्भितं काव्यं बिभणिषुः स्वसमीपे पुरः पृष्ठे वामतो दक्षिणतश्च पश्यन् किं पश्यसीति भूपेन भणितः पुनरवादीत्, हे देव! तव पर्षदि समेतस्य मम समीपे मन्मित्रं मया सममागतमभूत्, स मम सुहृन्न दृश्यते, कः सुहृदिति राज्ञाभिहिते, स स्माह
Jain Education International
यो गङ्गामतरत्तथैव यमुनां यो नर्मदां शर्मदां । का वार्ता सरिदम्बुलङ्घनविधौ यश्चाऽर्णवं तीर्णवान् ।
१. काव्यवर्णसाकर्ण्यकरि P | काव्यवर्णसर्वकरि DI
For Private & Personal Use Only
www.jainelibrary.org