________________
तरङ्ग १० / कथा २३१
॥ २३१॥ मतिमद्वचने लघूक व्यासकथा ॥
सर्वत्र मेधाविनामेव माहात्म्यमनर्गलं, यतः -
·-----
Jain Education International
वक्खाणे राय - आत्थाणे, भासणे गुरु-सासणे । नाणे सोहण - विन्नाणे, मेहावी माणमंचइ ॥ १ ॥
किञ्च मतिमन्तो हि विषमेष्वपि प्रश्रेषु न मुह्यन्ति । यतः -
क्या बला आगि लागीति-वाक्यादाकूतमग्रहीत् । लघूको महिमुन्दस्य, किमज्ञेयं हि धीमताम् ? ॥ तथाहि–निखिलमेदिनीमण्डलतिलकोपमे श्रीअहिम्मदावादे अकमपुरापरनाम्नि महानगरे सकलक्ष्मामण्डलाऽऽखण्डलस्य श्रीमहिमुन्दशाहिनरपुरन्दरस्य सरस्वतीलब्धप्रसादचतुर्दशविद्याविशारदो लघूको नाम व्यासो द्विजन्मा प्रेमपात्रमजनि ।
एकदा ग्रीष्मत गोपुरशिरस्थे गवाक्षे स्थितः स श्रीशाहिरेकां वरतुरगसनाथे रथे स्थितां सहकारफललम्भनिकां कर्तुं त्रिगोपुरपथे स्वैरं व्रजन्तीं जयन्तीनाम्नीं नगर श्रेष्ठिनः स्नुषां पश्यति स्म । तां च मणि-मौक्तिक- माणिक्य- कनकाऽऽभरणां यावकरसरञ्जितकरचरणां ताम्बूलपूर्णवदनां घनाऽञ्जनमञ्जुलनयनां स्वच्छतरवरदुकूलाऽम्बरधारिणीं सिन्दूरपूरपूरितसीमन्तहारिणीं रतिमिव रम्यरूपां सरस्वतीमिव सुन्दरस्वरूपां रोहिणीमिव राजमनश्चमत्कारकारिणीं लक्ष्मीमिव पुरुषोत्तमाऽभिप्रायाऽनुसारिणीं स्मरसञ्जीवनौषधीमिव सुन्दराकारां सुभगतरस्मितकटाक्षविलासप्रपञ्चितपञ्चेषुविकारां पश्यतः प्रादुर्भूतमधुसूनुप्रभूतविकारजनितचित्तोपद्रवस्य तस्य श्रीमहि - मुन्दशाहेर्मुखतः 'क्या बला आगि लागी' इति पञ्चदशाऽक्षरप्रमाणाया मालिनीवृत्तजातेरन्त्यसप्ताऽक्षराणि निर्गतानि । तस्यां च श्रेष्ठिस्नुषायां स्वस्थानं गतायां शाहे : स्वाऽन्तः स्वस्थीभूतं, परममी सप्ताऽपि वर्णाः पुनः पुनः पठनपाटवेन मुखे स्थिताः । इतश्च सायं प्रणामार्थं लघूकः समेतोऽभिहितश्च भूभुजा, भो लघूक! 'क्या बला आगि लागी ' इति सप्ताक्षरानुसारेणास्ममनोविजृम्भिताऽर्थसनाथां यवनवचनमयीं संस्कृतभाषामयीं चेमां समस्यां पूरयेति तद्वचः प्रभाते कथयिष्यामीति चाऽभिधाय लघूको निशि स्वगृहं ययौ ।
२६३
अथ पार्थिवमनोविलसिताऽर्थरम्यां मालिनीवृत्तेन समस्यां विधायोषसि सभायां गत्वा च लघूको मङ्गलमयमाशीर्वादं च दत्त्वोपविष्टः, पृष्टश्च अभाषिष्ट
हर- नयन - हुताश - ज्वालया हो जलाया, रति- रुदित - जलौघैः खाखबाकी बहायां । तदपि दहति चेतो मामकं भीदुरोगी, मदनशिरसि भूयः क्या बला आगि लागी ॥ ३ ॥ इति चतुरनरचित्तचमत्कारकारिणीं स्वमनोविकल्पिताऽर्थानुसारिणीमेनां समस्यामाकर्ण्य कामं सन्तुष्टः शाहिः करि तुरग - कनक-धन- वसनदानादिना विशेषतो लघूकं प्रसादपात्रं विधत्ते स्म । ॥ इति मतिमद्वचने लघूकव्यासकथा ॥ २३९ ॥
१. AHPD । बणाया मु. ॥
For Private & Personal Use Only
www.jainelibrary.org