________________
२६२ श्री कथारत्नाकरे
श्री हेमविजयरचिते राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः ।
एका तु स्वमुखेनोक्ता, वाचा मा यातु शाश्वती ॥ ३॥ इति ध्यात्वा राज्ञा तदुक्तं मूल्यं दत्त्वा स लोहनरो जगृहे। तमादत्तं विलोक्य परिजनैः पौरजनैश्च सर्वैरपि राजा निन्दितः, अहो! निपुणेनाऽप्यनेन राज्ञा शोभनं नाऽकारि, यदसौ दौर्गत्यनिबन्धनं लोहनरो जगृहे। इति लोकाऽपवादमसहमानः साहसैकनिधिः स राजा रजन्याः प्रथमे यामे तं दारिद्यूनरमादाय नगराद् बहिरेकस्य वटतरोरधस्तस्थौ । तदा च कापि कामिनी पुरस्तान्न्यस्तलोहनरं नरेश्वरमाशीर्वादपुरस्सरमवादीत्चिरं जीव चिरं नन्द, चिरं पालय मेदिनीम्। श्रीविक्रममहीनाथ!, सत्त्वरत्नमहानिधे!॥ ४॥
पीताम्बराऽऽभरणशालिनीं तां मानिनी राजा व्याजहार, हे सुन्दरि! कासि त्वं? श्रीरहं दौर्गत्यनरयुतस्य तव गृहे नाऽहं स्थास्यामीत्याकर्ण्य याहीति राज्ञाऽभिहिता सा तिरोऽभूत्। अथ द्वितीयस्मिन्नपि यामे तथैव श्वेताऽम्बरभूषणभूषिता कापि कुरङ्गाऽक्षी राजानमाशीर्वादमभणत्। राज्ञा पृष्टा सापि सरस्वतीत्यभिधाय तिरोदधे। एवमेव तृतीयेऽपि यामे रक्ताऽम्बराऽऽभरणधारिणी काऽपि कामिनी मापमाशीर्वादमभणत्।
राज्ञाऽभिहिता सापि विश्ववल्लभतादायिनी सौभाग्यश्रीरहमिति कथयित्वा तथैव तस्यां तिरोहितायां चतुर्थे यामे मरकतरत्नरश्मिशोभनतुरगमारूढो महानीलवसन-विभूषणधरः शुकपिच्छवर्णतिरस्कारिशरीरद्युतिपेशलः कोऽपि पुरुषः प्रादुरासीत्। कोऽसि त्वमिति पृष्टोऽयमपि भूपमभाषिष्ट, सकलगुणग्रामवनपल्लवनवनवाहोऽहं सत्त्वनरः, किं तु सर्वापदां निदानं हि दौर्गत्यं, यतःनिर्द्रव्यो ह्रियमेति हीपरिगतः प्रभ्रस्यते तेजसा, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति। निर्विण्णः शुचमेतिशोकसहितोबुद्ध्यापरिभ्रस्यते, प्रभ्रष्टः क्षयमेत्यहोनिधनतासर्वापदामास्पदम् ॥
तेन दारिद्य्वतस्तवाऽभ्यर्णे स्थातुं नाऽहमलं, तुभ्यमस्तु स्वस्ति याम्यहमन्यत्रेत्युदीर्य सद्यः प्रस्थातुमुन्मुखे तस्मिन् राजाऽब्रवीत्, भो भद्र! तव मम च सहैव सम्भवः सहैव च वृद्धिः, ततोऽसि मम त्वं सहोदरः, किंबहुना ? त्वां विना क्षणमप्यहं प्राणान् धर्तुं नाऽलमित्यभिधाय यावत्क्षुरिकया राजा स्वमुदरं विदारयति तावदकस्मादमररूप: सोऽवनीपतिमवादीत्।
हे नरशार्दूल! धन्यस्त्वं येन त्वया निजवचनपालनायेदं विषममपि प्रतिपन्नमित्यभिधाय तस्मिंस्तस्थुषि राज्ञः पुरः स्थितः स लोहपुत्तलकः काञ्चनपुरुषः सम्पन्नः । [सत्त्वं च तत्र स्थितं विज्ञाय ता लक्ष्म्याद्या अपि पुनरागत्य राजानं प्रणम्य सेवकीभूय स्थिताः ।] अहो! सत्त्वमहो! सत्त्वमिति प्रशंसितो राजा स्वप्रासादमासदत्। ॥ इति स्वीकृतप्रतिज्ञापालने श्रीविक्रमादित्यकथा ॥ २३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org