________________
तरङ्ग १०/ कथा २२९/२३०
२६१ ताभिरपि तदुक्ते चाऽङ्गीकृते स वैद्यः शस्त्रेण मद्गल्लौ विदार्य रुधिररक्तांस्तांस्तण्डुलान् कीटककूटेन दर्शयित्वा तण्डुलीयोऽयं महारोगो मया निराकृत इति प्रतिपन्नं सर्वं मे दीयतामित्यवदत्। ततो भस्मनि निहितेषु तेषु तण्डुलेषु तुष्टाभिस्ताभिर्दत्तं तत्सर्वं लात्वा स वैद्यो ययौ। मया च बाढं गल्लपीडा सोढा, श्वशुरगृहसत्कभूरिधनव्ययश्च कारितः, तेन भो लोका! मत्तुल्यो मूर्खः क्वापि कोऽपि भवद्भिः किं दृष्टः? इति कामं कौतुककारिणीं बालगोपालादिलोकहास्यकारिणी स्वकथामभिधाय विरते तस्मिंस्तैः पौरैस्ते चतुरोऽप्यभिदधिरे, भो भद्राः ! सागरस्येव युष्मन्मूर्खत्वस्य पारं प्राप्तुं न वयमलं, तेन स एव साधुरेतद्विषये भवद्भिः पृष्टव्यः। ततस्ते चत्वारोऽपि मूर्खाः साधुतोऽपि सम्यक् प्रत्युत्तरमलभमानाः स्वं स्वं स्थानं ययुः ॥ इति मूर्खचरित्रे चतुर्थमूर्खविप्रकथा ॥ २२९॥
॥ २३०॥ स्वीकृतप्रतिज्ञापालने श्रीविक्रमादित्यकथा ॥ अङ्गीकृतेषु हि महतां गुणदोषविचारो न स्यात्, यतःचन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा, दोषाकरः स्फुरति मित्रविपत्तिकाले । मूर्ध्नि तथाऽपि विधृतः परमेश्वरेण, न ह्याश्रितेषु महतां गुणदोषचिन्ता ॥ १॥ अपि च
महेश्वरेणेव कलङ्यपीन्दु-रङ्गीकृतं मुच्यत उत्तमैन ।
न दौःस्थ्यकृत्पुत्तलकं मुमोच, यद्विक्रमः सत्त्वमनोज्ञमूर्तिः ॥ २॥ तथाहि-मालवदेशशिरोमणिश्रीउज्जयिनीनगरे द्विनवतिलक्षग्रामाधिपतिः संवत्सरप्रवर्तकः सप्रसादवेतालादिबहुदेवसेवितः सकललोकाऽतिशायिसत्त्वशेवधिः श्रीविक्रमादित्यो राज्यं करोति स्म। एकदा स यन्मणि-मौक्तिक-लोह-सुवर्ण-रजत-त्रपु-लाक्ष-घृत-तैलादि वर्यमवर्यं वा केनापि नाऽऽदीयते, तन्मयाऽवश्यमाऽऽदेयमिति सर्वत्र नगरे पटहोद्घोषणापूर्वं स राजा प्रजां पालयति । सर्वत्र च पप्रथैषा वार्ता । यतः
वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवार-मेतत् त्रयं प्रसरतीति किमत्र चित्रम् ?॥ २॥
इमां वार्ता श्रुत्वा चन्द्रपुरवासी चन्द्रदत्त श्रेष्ठी तत्परीक्षार्थं दारिद्र्यपुत्तलोऽयमिति ललाटाक्षरयुतं लोहमयं पुत्तलकं विधाप्य गृहीत्वा चोज्जयिन्यां समागत्य विपणिमार्गे तस्थौ। दौर्गत्यमूर्तिरेषा त्रिलक्ष-कनकमूल्यं चाऽस्या इति पृच्छतां लोकानां पुरो वदन् स स्थितः। नगरवासिना केनाऽप्यनादत्ते तस्मिन् पुत्तले सायं राजनरै राज्ञोऽग्रे तद्व्यतिकरो विज्ञप्तः । १. तुला- सिंहासनद्वात्रिंशिका कथा ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org