________________
२६० श्री कथारत्नाकरे
श्री हेमविजयरचिते चौरेण मत्परिधानवस्त्राऽऽकर्षणेनाऽहं भृशमभिभूता, त्वं चाऽभ्यणे सुप्तोऽपि तस्करमेनमुपेक्षसे तेन मूर्खमुख्यं त्वां धिगस्तु । रे मूर्ख ! त्वयि पश्यत्यप्यहमनेन चौरेणेति पराभूता, तथापि त्वया न पौरुषं प्रकटितं, तेन तव जीवितं धिगिति तयोक्तमाकर्ण्य मयाऽभिहितं, हे प्रिये! त्वया हारितं, मया च जितं, तेन दश पूपान् मम देहि ? भोः पौरा इदं मम मौऱ्या पश्यन्तु, येन मया सर्वमपि गृहवित्तं गमितम्। तदा च सकलैरपि लोकैर्वोदन्द इति मम नाम निर्ममे, हे लोका! अस्ति कोऽपि मम सदृशो हास्यकृच्चरित्रो मूर्खः? एवं स्वचरित्रमभिधाय विरते तस्मिंश्चतुर्थः प्राह ॥ इति तृतीयमूर्खकथा ॥ २२८॥
॥ २२९॥ मूर्खचरित्रे चतुर्थविप्रकथा ॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् ।
तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ १॥ ततः प्राज्ञ-मूर्ख-धनि-निर्धन-स्वामि-दास-स्त्री-पुरुष-बाल-वृद्ध-नृप-भिक्षाचरप्रभृतीनां सर्वेषां मूर्खचरित्रं हास्यनिदानं, तथाहि-वसुमतीतिलके नगरे नगराजनामा द्विजोऽहं वसामि, एकदा पितृगृहात्पत्नीमानेतुं श्वशुरगृहेऽहं गतः, तदा च पत्नीमात्रा भव्यमपि परिवेषितमशनं लजमानो नाऽहं भुक्तवान्। एवं द्वितीये तृतीये दिवसेऽपि मामवलोकनार्थमागतानां ग्राम्यस्त्रीणां त्रपाऽभिभूतो नाऽहं भोजनमकार्षम् । अथ चतुर्थेऽहनि भृशं क्षुधाऽऽर्तोऽहमभवम्।
तेन निशि शयनीये सुप्तोऽदनार्थमितस्ततोऽवलोकयन् पर्यङ्काऽधस्तात्तण्डुलभृतमेकं स्थालमपश्यं, तदा च क्षुधार्तेन मया तैस्तण्डुलैर्यावन्मुखं भृतं, तावदकस्मात्तत्रागतां प्राणप्रियामालोक्य लज्जया तण्डुलभृतमुख एव फुल्लगल्लोऽहमस्थां, तदा प्रफुल्लगल्लं विदीर्णलोचनं च मामालोक्य निर्णीतमहारोगपीडा सा मत्प्रिया स्वमातरमब्रवीत्, हे अम्ब! त्वज्जामातुराकस्मिक: कोऽपि प्राणान्तरोगो जातोऽस्ति। समागता सापि मामीदृशं दृष्ट्वा-हा दैव! हा दैवेति ब्रुवाणा बाढस्वरेण पूच्चक्रे । तत्पूत्कारं श्रुत्वा सर्वोऽपि ग्रामीणवधूवर्गो द्रुतमागत्य शाकिनी-डाकिनीकरालवेताल-मुद्गल-भूत-प्रेत-पिशाच-गोत्रदेवी-क्षेत्रपाल-यक्ष-यक्षिणीप्रमुखदुष्टदेवतादिदोषं शङ्कमानोऽसमानं कोलाहलमकरोत् । सर्वाभिरपि ताभिर्मत्प्रियामात्रा च सम्भूयैकः कोऽपि वैद्यवर आकारितः। सोऽपि कठिनतरौ प्रकामं फुल्लौ मद्गल्लौ दृष्ट्वा हस्तस्पर्शेन मदभ्यर्णस्थितग्राम्यवधूजनप्रश्नेन नाड्यवलोकनेन च मां रोगरहितं मत्वा तण्डुलभृतमुखं मामज्ञासीत्। ततो महाधूर्तः स वैद्योऽपि जगाद, भूरिद्रव्यमेकां नवप्रसूतां महिषीमेकमङ्गुलीयमेकं च शीर्षवेष्टनं यदि मे दीयन्ते, तदाऽहमेनं सत्वरमेव नीरोगं करोमि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org