________________
२५५
तरङ्ग ९/ कथा २२४ ॥ २२४॥ दानविषये श्रीविक्रमादित्यनूपकथा ॥ दानं हि सर्वेषां गुणानां गृहं, यतः
दाणं सोहग्गकरं, दाणं आरुग्गकारणं परमं ।
दाणं भोगनिहाणं, दाणं ठाणं गुणगणाणं ॥ १॥ किञ्च श्रियः फलं हि वितरणमेव, यतः
लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनीसंसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसंनिधेरिव नृणा-मुद्भासयत्यञ्जसा,
धर्मस्थाननियोजनेन विदुषा, ग्राह्यं तदस्याः फलम् ॥ २॥ दानं हि केषाञ्चिदेव प्रियं, यतः
अभिमुखाऽऽगतमार्गणधोरणी - ध्वनितपल्लविताऽम्बरगह्वरे । वितरणे च रणे च समुद्यते, भवति कोऽपि पुमान् विरलः पुरः ॥ ३॥ दानिनो हि किमप्यदेयं नास्ति, यत:
श्रीभोज्यसैन्याऽऽभरणप्रदानि, रत्नानि चत्वारि वितीर्य चक्रे ।
यद्विक्रमो विप्रकुलं सहर्ष, यच्छन्ति सन्तः किमु नाऽन्यतुष्टयै ॥ ४॥ तथाहि-द्विनवतिलक्षग्रामाऽभिरामे श्रीमन्मालवदेशे श्रीउज्जयिन्यां श्रीविक्रमादित्यराजा राज्यं करोति स्म। अन्यदा सौभाग्यमञ्जर्याः स्वदुहितुरुद्वाहे सुरेन्द्र-यम-वरुणवैश्रवणानां चतुर्णां लोकपालानामाकारणार्थं प्रत्येकं चतुरो विप्रान् प्राहिणोत्।।
एकं च श्रीकण्ठनामानं द्विजन्मानं सकलक्ष्मामण्डलस्य प्राकारतया स्थितत्वेन महोपकारिणो महोदधेराकारणार्थं प्रेषयति स्म। श्रीकण्ठोऽपि पश्चिमाऽम्भोधिरोधसि गत्वा धूप-कुसुम-चन्दन-श्रीफलादिनाऽम्भोधिमभ्यर्च्य समुद्रमन्त्रजापादिपुरस्सरमुवाच, मन्त्रो यथा
ॐ समुद्रोऽसि रत्नाकरोऽसि मकराकरोऽसि नदीपतिरसि वरुणालयोऽसि यादःपतिरसि सलिलनिलयोऽसि पारावारोऽसि सागरोऽसि साक्षाद् भव भव स्वाहा।
श्रीदुहितरं पाणौ दधानो रत्ननिकरप्राभृतं बिभ्रद् अमृतकुम्भं कलयंश्च समुद्रः प्रादुरासीत्। आयातं च समुद्रदेवं नत्वा श्रीकण्ठो राज्ञः शासनमब्रवीत् । भोः श्रीकण्ठ! मयि समागते जगत्प्रलयस्तेनाहं स्थानस्थित एव शोभनः । किञ्च मद्भातुः श्रीविक्रमादित्यस्य मम नमस्कारो वाच्यः, देयानि चेमानि कामितश्री-भोज्य-सैन्या-ऽऽभरणप्रदानि चत्वारि रत्नानि, इति प्राभृतं दत्त्वा समुद्रे तिरोहिते श्रीकण्ठस्तानि रत्नान्यादाय समेत्य च गृहे निशि सुत-स्नुषा-पत्नीनां पुरो रत्नमहिमानमब्रवीत्। एतदाकर्ण्य पतिं पत्नी प्राह, हे प्राणनाथ! प्रातश्चेत्तुष्टो भूपतिस्तवैकं दास्यति तदा त्वं कं रत्नमादास्यसि ? तेनोक्तं दौर्गत्यादपरं दुःखं नास्ति, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org