SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २५६ श्री कथारत्नाकरे श्री हेमविजयरचिते निर्द्रव्यो ह्रियमेति हीपरिगतः प्रभ्रस्यते तेजसा, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोककलितो बुद्धः परिभ्रस्यते, प्रभ्रष्टः क्षयमेत्यहोऽप्यधनता सर्वाऽऽपदामास्पदम् ॥ ५॥ जगत्पूज्यत्वनिबन्धनं श्रीरेव, यतःश्रियः परः परो मन्त्रो, नास्ति कार्मणकर्मणि । यद्विश्वरूपगोपोऽपि, पूज्यते श्रीयुतो जनैः ॥६॥ तेन दौर्गत्यसपत्नरत्नं श्रीप्रदमेव रत्नमहमादास्ये, ततः सा स्माह, हे नाथ! यद्येवं तदा त्वया सह मम गृहवासो नास्ति, यतोऽहं खण्डन-दलन-पेषण-रन्धनादिक्रियया दिवानिशं दग्धास्मि, तेनामरभोज्यप्रदं रत्नं याचनीयं, येनाहममरीव स्वैरं सुखमनुभवामि। एवमनयोर्वचनमाकर्ण्य सुतोऽवदत्, हे तात! सैन्यप्रदमेव रत्नमादेयं, येनाहं चतुरङ्गचमूयुतो राजेव लीलामनुभवामि, यद्येवं न तदाऽऽवयोः पृथग्भावः। ___अथ स्नुषा बभाषे-हे ताताऽमीभिस्त्रिभिरपि रत्नैरलं, किं त्वाभरणप्रदमेव रत्नमादेयं, येनाहं मणि-स्वर्ण-मौक्तिकाद्याभरणैरलङ्कृता मूर्तिमती श्रीरिव लीलामनुभवामि। इति चेत्र तदा युष्माकं गृहं हित्वाऽहं पितुर्गृहं यास्यामीति। एवं तस्यां निशि तेषां मिथो महान् विवादोऽभूत् । अथ प्रभाते श्रीकण्ठ आशीर्वादपूर्वकं रत्नमाहात्म्यकथनपुरस्सरं रत्नानि दत्त्वा राज्ञः पुरो रात्रिव्यतिकरमवादीत् । एतदाकर्ण्य परदुःखकातर इत्यात्मनो बिरुदं मनसि बिभ्रत् साक्षाच्चिन्तामणिः श्रीविक्रमादित्यस्तानि चत्वार्यपि रत्नानि श्रीकण्ठाय ददौ। ॥ इति दानविषये श्रीविक्रमादित्यनपकथा ॥ २२४॥ ॥ २२५॥ गृहमण्डनं स्त्री इत्यर्थे भीममन्त्रीभार्या-कथा ॥ दानं हि क्वाऽपि निष्फलं न स्यात्, यतःपात्रे धर्मनिबन्धनं तदितरे प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्धनं नरपतौ सन्मानसम्पादकम्। भृत्ये भक्तिभरावहं रिपुजने वैरापहारक्षम, भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥१॥ तेन दानं विना कीर्तिर्न भवति, यतः- ' अभ्यासकारिणी विद्या, लक्ष्मी: पुण्यानुसारिणी । दानानुसारिणी कीर्ति-बुद्धिः कर्मानुसारिणी ॥२॥ अपि चकुण्डलद्वयदानेन, पत्युः कीर्तिमवर्धत। भीमभार्या ततः सत्यं, स्त्रियो मण्डनमोकसः ॥ ३ ॥ तथाहि-गुर्जरधरित्रीमण्डने श्रीमत्पत्तने महानगरे त्यागतिरस्कृतकर्णः कर्णः क्षमापः, तस्य च वणिग्वर्गाऽवतंसो नीतिप्रीतिपार्वतीभीमो भीमनामा महामन्त्री, अस्य च दानातिशय१. शोकनियतो -- PD ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy