________________
२५४ श्री कथारत्नाकरे
श्री हेमविजयरचिते यद्यपि न भवति हानिः, परकीयां चरति रासभे द्राक्षाम् ।
असमञ्जसं तु दृष्ट्वा, तथापि परिखिद्यते चेतः ॥ २ ॥ हे भद्रे! बहुशिक्षितोऽपि नीचः स्वभावं न मुञ्चति। यतः
यस्य न सहजो बोधः, पुरतः किं तस्य भाषितैर्बहुभिः ।
नलिकाधृतमपि सततं, न भवति सरलं शुनः पुच्छम् ॥ ३॥ एवं चाऽनुदिनं तयोर्विवादे जायमानेऽन्येद्युः पार्थिवेन सा गणिकाऽभाणि, हे चामरधारिणि ! स्ववचनसत्यापनार्थं किमपि तादृशं दर्शय, येन तवोक्तं समीचीनमहं मन्ये, अन्यथा श्रेष्ठी सत्यवादी, त्वं तु मृषावादिनी, इत्यभिहिता सा चैकं मार्जारबालं शिक्षयामास। शैशवादपि सुशिक्षितः स ओतुशिशुः सुनिपुणसेवक इव ताम्बूलदान-दीपधरण-चामरवीजनपानीयपान-वस्त्रपरिधापनादीनि सर्वाण्यपि राजशरीरकृत्यानि करोति स्म। एवं सर्वं कुर्वाणं बिडालमालोक्य राजा तां वेश्यां प्रशंसयामास, अहो! अस्या उक्तं सत्यं, यदसौ शिक्षितो मार्जारः पशुरपि चतुरनर इव सर्वं समीचीनतया विदधते। इति वर्णिता सा वारवर्णिनी मुखमोटनकं कृत्वा राजानं व्याजहार, हे स्वामिन् ! हिङ्ग-लवण-तैलादिविक्रयकारिणोऽमी वराका वणिजः किं विदन्ति ? यतोऽस्माकमेव कुलं चातुरीमूलम्। यदुक्तं
देशाटनं पण्डितमित्रता च, पण्याङ्गना राजसभाप्रवेशः ।
अनेकशास्त्राऽर्थविचारणं च, चातुर्यमूलानि भवन्ति पञ्च ॥ ४॥ अथैकदा निशि द्यूतक्रीडां कुर्वाणे राज्ञि दीपं गृहीत्वा च तस्थुषि तस्मिन्मार्जारे शोभन: सहसैव चैकमा तत्र मुमोच।
तं मूषकं दृष्ट्वा स मार्जारः सत्वरमेव दीपं निक्षिप्य तं मूषकमग्रहीत्। पतिते च दीपे तैलेन राज्ञो वयवस्त्राणि विनष्टानि, ज्वलितं सिंहासनं, क्रीडा च निहता, राज्ञो भृशमशर्म जातम् । अथ शोभनगिरा शोभनोऽभाषत, हे स्वामिन् ! सुशिक्षितोऽपि नीचोऽप्ययमिव स्वां प्रकृतिं न त्यजति, पश्येदं मार्जारविलसितं ? यतोऽनयोर्मार्जारमूषकयोर्वैरं स्वभावजनितं, स्वभावो हि दुस्त्याज्यः, यत:
यद्यपि मृगमद-चन्दन-कर्पूरप्रभृतिवासितो लशुनः ।
तदपि न मुञ्चति गन्धं, प्रकृतिगुणाज्जातिदोषेण ॥ ५ ॥ तेन गीत-नृत्य-ज्ञान-विज्ञानादिकलाकौशलं सर्वं शिक्षितमायाति, परं स्वभावो न याति, इति ज्ञात्वा राज्ञा वेश्याऽपमानिता, श्रेष्ठी च बहु मन्यते स्म ॥ इति स्वभावे शोभनश्रेष्ठिकाममञ्जरीवेश्याकथा ॥२२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org