________________
तरङ्ग ९/ कथा २१४
२४१ ॥ २१४॥ शीलपालने विजय-विजया कथा ॥ प्रणम्य हरिवंशाब्धि-शशिनं नेमिनं जिनम्। ब्रवीमि ब्रह्ममाहात्म्य-कथां कौतुककारिणीम् ॥१॥ मौक्तिकानामिवाम्भोधिः, सरः पङ्केरुहामिव। सौभाग्यसम्पदां नित्यं, निदानं शीलमेव हि ॥ २॥
यत:दानं दहति दौर्गत्यं, शीलं सृजति सम्पदम्। तपस्तनोति तेजांसि, भावो भवति भूतये ॥३॥
सीलं धम्मनिहाणं, सीलं पावाण खंडणं भणिअं ।।
सीलं जंतूण जए, अकित्तिमं मंडणं परमं ॥ ४ ॥ पाल्यते नियमः कश्चिद्, बाल्येऽप्यात उत्तमैः । दम्पतीभ्यामिव ब्रह्म, शुक्लाशुक्लस्वपक्षयोः। कच्छदेशशिरोरत्न-मासीद्रत्नपुरं पुरम् यत्र नित्यं स्थिता लक्ष्मी, रत्नाकर इवाऽभवत् ॥६॥ सिंहः सिंह इवौजस्वी, तत्राभूद्भूमिवल्लभः । प्लुष्टा यस्य प्रतापेन, द्विषोऽभूवन् रसोज्झिताः ॥७॥ तस्यासीत् श्रीमतीनाम-महिषी श्रीरिवाङ्गिनी। आदर्शेष्वेव सादृश्यं, जज्ञे यद्रूपसम्पदः ॥८॥ अभवन्नगर श्रेष्ठी, तत्र सत्रमिव श्रियाम् । अर्हद्दास इति ख्यातः, सदैवार्हत्सु भक्तिभाक् ॥ ९॥ सतीजनशिरोरत्नं, जाया मायाविवर्जिता। तस्यासीदाहतीनाम-पद्मा पद्मापतेरिव ॥ १०॥
रूपश्रीजितचेतोभू-रभवत्तनयस्तयोः । जयदत्त इवेन्द्राणी-वज्रिणोविजयाभिधः ॥ ११॥ अधीते स्म गुरोः पार्श्वे, स कलाः सकलाः क्रमात् ।वृद्धिंचकलयामास, शशीव प्रियदर्शनः ॥१२॥ क्रमेण बिभरामास, यौवनं पावनं च सः । कामिनीहक्कुरङ्गाणां, सोऽभूत्पाश इव व्रजन् ॥ १३ ॥ कलाभिः कौमुदीकान्तो, रूपेण मकरध्वजः । पाण्डित्येन सुराचार्य, ऐश्वर्येण महेश्वरः ॥१४॥ गाम्भीर्येण सरिन्नाथः, सौभाग्येन सुराधिपः । वितन्वन् विश्ववाल्लभ्यं, विजयो वृद्धिमीयिवान् ॥ १५ ॥
युग्मम्।
यत:
दानं दुरितनाशाय, शीलं सौभाग्यकारणम् ।
तपः कर्मविनाशाय, भावना भवनाशिनी ॥ १६॥ तत्रापि ब्रह्ममाहात्म्यं, विशेषाद् गुरुणेरितम् । स चातक इवाम्भोद-पानीयं निपपौ सुधीः ॥ १७॥
सीलं उत्तमवित्तं, सीलं जीवाण मंगलं पवरं ।।
सीलं दोहग्गहरं, सीलं सुक्खाण कुलभवणं ॥१८॥ जलज्वलनरोगाऽहि-करिकेसरिसम्भवा। भीतिः क्षीयेत शीलेन, मेघमालेव वायुना ॥ १९॥ अङ्गीकुर्वन्ति ये नित्यं, सलीलं शीलमङ्गिनः । अवश्यं वश्यमायान्ति, तेषां मन्त्रादिसिद्धयः ॥ २० ॥ अमरा: किङ्करायन्ते, सिद्धयः सहसङ्गताः । समीपस्थायिनी सम्पत्, शीलालङ्कारशालिनाम् ॥२१॥ एवं सम्यक् समाकर्ण्य, शीलमाहात्म्यमुत्तमम्। मुमुदे विजयः कामं, कलापीव घनध्वनिम् ॥ २२ ॥ पालनीयं मया पक्षे-ऽवलक्षे शीलमुत्तमम् । अमूढोऽनूढ एवाय-मित्यभिग्रहमग्रहीत् ॥ २३॥ जीवितव्यमिवानन्त-गुणानां सेवधिं सुधीः । पालयन् शीलममलं, गमयामास वासरान् ॥ २४॥ इतस्तत्रैव नगरे, भवति स्म धनावहः। महेभ्यः श्रीमतां मुख्य-स्ताराणामिव चन्द्रमाः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org