SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ९ / कथा २१२/२१३ इति निशम्य राज्ञाऽभाणि तदत्रार्थे सत्वरमुद्यमो विधीयतां, मन्त्रिणापि तन्मन्त्रिपरीक्षानिमित्तं तत्र सलेख एको वाग्मी दूतः प्रहितः, राजापि दूतेनाऽर्पितं लेखमवाचयत्। तद्यथा— इहाऽस्ति तत्र नाऽस्ति तत्रास्ति इह नास्ति, तत्राप्यस्ति इहाप्यस्ति, इहापि नास्ति तत्रापि नास्तीतीदृशं प्रेष्यमिति । एतदुत्तरमजानन् राजा किं- कर्तव्यजडत्वेन भृशं विलक्षोऽजनिष्ट | अथ सदसि समेतेन वृद्धेन सुबुद्धिना मन्त्रिणा वैलक्ष्यनिदानं पृष्टोऽसौ प्रतिपक्षलेखस्वरूपमभाषत । हे देव! का चिन्ताऽत्रार्थे, अहमुत्तरं दास्यामीत्युक्त्वा गृहे गत्वा निशि विमृश्य प्रभाते सान्वर्थनामैका रूपसुन्दरी वेश्या, मूर्तिमान्मुनिधर्म इवैको जैनमुनिश्च सत्याऽभिधः, कुबेरनामा चैकः श्रेष्ठी, शीर्णैकाऽम्बरो भग्नघटकपालधरो दुर्भरोदरो भिक्षाचरो भिक्षुरेकश्च, एवं सर्वेऽप्यमी संमेल्य तेन दूतेन सार्धं प्रहिताः । तेनापि प्रतिपक्षमन्त्रिणापि वेश्यादींस्तानवलोक्य स्वस्वामिनोऽभ्यधायि, हे स्वामिन्नस्य राज्याऽऽशा न कार्या, यतोऽसौ मन्त्री धिया दुर्जेयः, राजा स्माऽऽह भवता किं पृष्टं तन्मन्त्रिणा च किमुत्तरमदायीत्यभिहितो मन्त्री जगौ, हे स्वामिन्निहाऽस्तीति चतुर्भङ्गी मया मार्गिता, तदर्थं च वेश्यादयश्चत्वारोऽमी तेन प्रहिताः सन्ति । तदर्थश्चाऽयं इहाऽस्मिन् जन्मन्यस्या वेश्याया: स्वेप्सितपुरुषसम्भोगसामग्रीजनितं सुखमस्ति तत्र परस्मिन् जन्मनि नरकगतित्वेन सुखं नास्तीत्येको भङ्गः १ । तत्र परस्मिन् जन्मन्यस्य साधोः स्वर्गाऽपवर्गपदप्राप्तिजनितं शर्माऽस्ति, इहाऽस्मिन् जन्मनि च नीरसभैक्ष्यभोजनं स्नानराहित्यं केशलुञ्चनं भूमिशयनं च तेन सुखं नास्तीति द्वितीयो भङ्गः २ । तत्राऽपीति परस्मिन्नपि जन्मन्यस्य श्रेष्ठिनः श्रावकत्वेन स्वर्गादिसुखसामग्रीभवं सुखमस्ति इहाप्यस्मिन्नपि जन्मनि समृद्धत्वेन विषयादिसकलसामग्रीजनितं सुखमस्तीति तृतीयो भङ्गः ३ । इहाप्यस्मिन्नपि जन्मनि भिक्षाचरत्वेनास्य भिक्षुकस्य सुखं नास्ति, तत्रापि परस्मिन्नपि जन्मन्यकृतधर्मत्वेन नरकगतित्वेन सुखं नास्तीति चतुर्थो भङ्गः ४ । इत्यर्थं सम्यगवगम्य अहो ! अस्य मन्त्रिणो मतिरतिशायिनीति चमत्कृतो राजा पश्चाद्बलित्वा स्वस्थानं ययौ ॥ इति मतिविषये मन्त्रिकथा ॥ २१२॥ ॥ २१३॥ बुद्धिकौशल्ये लघुककथा ॥ सर्वत्र मतिरेव महियसी, यतः - -- २३९ Jain Education International षट्पदः पुष्पमध्यस्थं, यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु, सारं गृह्णाति बुद्धिमान् ॥ १ ॥ किंबहुना ? विषमेष्वपि प्रश्रेषु बुद्धिमानेव पुरस्सरो भवति, यतः— केषांचिदेति मतिरुन्नतिमङ्गभाजां प्रश्ने प्रकाशमितरावगमैरगम्ये अग्रे यतो लघुक एव चकार सर्व - बीजादिनिर्णयमलं महिमुन्दशाहेः ॥ २ ॥ I For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy