________________
२३८ श्री कथारत्नाकरे
श्री हेमविजयरचिते एकैकं दशकन्धरस्य भयकृद्रामस्य किं वर्ण्यते ।
दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ४॥ तस्य दैवस्य पुरस्तात् कैषा वराकी मामकीना सुता? कोऽहं च नृणां तृणमिति मत्वा सुखेन छात्राणां शास्त्राणि पाठयतस्तस्य सुता विवाहोचिता जाता। अथैकदा ज्योतिःशास्त्रं पाठयन् विद्यानन्दोऽस्मिन् लग्ने विवाहिता कन्याऽवश्यं वैधव्यं नाऽऽप्नोतीति लग्नं निर्णीय चिन्तयाञ्चक्रे, अहो! मत्सुतायाः षष्ठे मासेऽवश्यं वैधव्यम्, इदं लग्नं चेदृशं, यदत्र परिणीता कन्याऽवश्यं विधवा न स्यात्, तेन विलोकयामि, द्वयोर्मध्ये किं बलत्तरमिति निर्णीय पित्रा कस्मैचिदिभ्याय द्विजन्मसूनवे सुता वितीर्णा, अथाऽष्टादशदोषरहिते घटिकासाध्ये तस्मिन्नेव लग्ने पुत्री विवाहयितुमारब्धा।
विशेषतो निःशेषज्योतिःशास्त्रकुशलो विनिर्मितकुङ्कम-तण्डुलतिलकः स विप्रःदशताम्रपलावर्त-पात्रे वृत्तीकृते सति। घटिकायां समुत्सेधो, विधातव्यः षडङ्गलः ॥ ५ ॥ विष्कम्भं तत्र कुर्वीत, प्रमाणाद् द्वादशाङ्गलम् । षष्ठाम्भःपलपूरेण, घटिका सद्भिरिष्यते ॥६॥
इत्यादिपरिपूर्णप्रमाणोपेतं घटिकापात्रं स्वच्छनीरभृते कुण्डे भगवतो भानोरस्तगमनसमये मुमोच। 'मा कांते पक्षस्यान्ते पर्वाकाशे स्वाप्सी:' इत्यादि पलवृत्तपठनतो मनसो दुःसावधानतया पुत्रीपाणिग्रहणोत्सवौत्सुक्येन वार्द्धकेन च घटिकापात्रं पय:कुण्डे मुञ्चतस्तस्याऽलिकतिलकात्पतन्नेकस्तण्डुलो घटिकारन्ध्रे रुरोध। रुद्ध च घटिकारन्ध्रे सा लाग्निकी वेला व्यतिचक्राम।
तेन विप्रेणाऽपि घटिकाभरणविलम्बन तण्डुलजनितं घटिकारोधं ज्ञात्वेति चिन्तितम्, अहो ज्योतिःशास्त्रं सत्यं, यतोऽमुष्मिन् लग्नेऽस्याः पाणिग्रहो नाऽभवत्, वैधव्यस्याऽवश्यं भावित्वात्, इति ध्यात्वा तेन गतेऽपि लग्ने पुत्री परिणायिता, षण्मासान्तरे च दन्दशूकदंशान्मृते भर्तरि सा विधवा जाता। ॥ इति विधिना लिखितमन्यथा न स्यादित्यर्थे विप्रपुत्रीकथा ॥२११॥
॥२१२॥ मतिविषये मन्त्रिकथा ॥ मन्त्रिणां मतिरेव राज्ञां राज्याऽवष्टम्भकारिणी, यतः
इहास्तीति चतुर्भङ्गया, वेश्य-र्षि-श्रेष्ठि-भिक्षुकान् ।
प्रेष्य प्रत्युत्तरोऽदायि, मन्त्रिणा धीस्ततोऽद्भुता ॥ १॥ तथाहि-वसन्तपुरे पुरे पुरन्दरनामा राजा, अन्यदा सहसैव मृते राज्ञि लघुरेव तस्य सूनुर्मन्त्रिणा राज्ये निदधे। तस्मिन्नवसरे तं लघीयांसं राजानमाकर्ण्य तदरिः कच्छदेशाधिपः पारसिकनामा राजा तमुपद्रोतुमागच्छन् वसन्तपुरपरिसरे प्राप्तो मन्त्रिणाऽभाणि, हे स्वामिन् ! स्तम्भेन मन्दिरमिवास्य राज्यं मन्त्रिणां धियैव सुस्थितं वर्त्तते, तेन यदि राज्यजीवितव्यादिसुखाऽभिलाषः स्यात्तदा विलोक्यतेऽस्य कोऽपि प्रवयाः सचिवोऽस्ति नाऽस्ति वेति, तदनुसारेणाऽस्मिन् गमनं विधास्यते। १. छात्राणि AHDP I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org