________________
तरङ्ग ९/ कथा २१०/२११
२३७ नाऽकारि, यन्मामनापृच्छय सर्वं धनं सुताधीनं व्यधायि। श्रेष्ठी ब्रूते स्म, हे मित्र! धनं सर्वं सुतायत्तं, स्नुषा अपि कटुकभाषिण्यः, तेन मृतकलत्रस्य मम मरणमेव श्रेयः, यत:वृद्धस्य मृतभार्यस्य, पुत्राऽऽधीनधनस्य च। स्नुषावचनदग्धस्य, जीवितान्मरणं वरम् ॥ ३ ॥
इत्याकर्ण्य सुहृदशर्मवार्तया दुर्मनाः सुवर्णकृदवादीत्, हे मित्र! मत्कृतैः कूटैरारकूटदीनारैस्तदुपरि चैकेन कनकदीनारेण भृतामेकामेनां वासिनीकां गृहाण या स्नुषा मनागपि त्वयि भक्तिमती स्यात्तस्यां पश्यन्त्यामेकं कनकदीनारं वासिनिकातो निष्कास्य, मत्कृते मोदकादि सर्वं सुन्दरमशनादि विधेयमित्यभिधाय, स दीनारस्तस्याः समर्पणीयः। तन्मतिविनिर्मितं तदवितथं मन्यमानेन तेन श्रेष्ठिनाऽपि तथैव विहितम्। तयाऽपि स दीनारो रहसि स्वपत्युर्दर्शितः, सोऽपि तल्लोभलालसः पितुरन्तिके च सुवर्णदीनारभृतां वासिनीकां निशम्य शयनाऽऽसनभोजनमज्जनाऽऽच्छादनादिना विशेषतः प्रत्यहं तस्य परिचर्यां चकार । क्रमेण तद्दीनारवासिनीकावार्ता निशम्याऽन्येऽपि पुत्रास्तेषां स्नुषाश्च तत्प्रेमपात्रीभवितुं तस्य जैरठस्याहंपूर्विकया भोजनादिभक्तिं का लग्नाः, श्रेष्ठ्यप्येवं पुत्र-स्नुषादिभिरुपचरितः कल्पलतयेव तया सुहृबुद्ध्या भृशं सुखी जातः। ॥ इति मित्रमतिविषये खेमाऽभिधानसुवर्णकारकथा ॥ २१०॥
॥ २११॥ विधिना लिखितमन्यथा न स्यादित्यर्थे विप्रपुत्रीकथा । जलदपटलीमिव मारुतवृन्दं पुंसां विलसितं विधिर्विघटयति :
अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ १॥ जं किर विहिणा लिहियं, तं चिअ परिणमइ सयललोआणं । इय जाणिऊण धीरा, विहुरे वि न कायरा हुंति ॥ २॥
ललाटे लिखितान्यक्षराणि नान्यथा भवन्ति । यतःशक्यते नान्यथा कर्तुं, धीमद्भि वैधसीलिपिः । विप्रपुत्र्याः शुभं लग्नं, घटीरोधेऽन्यथाभवत् ॥ ३॥
तथाहि-वालासरग्रामवासिनः शब्दानुशासन-साहित्य-छन्दःप्रभृतिप्रभूतविद्याऽनवद्यस्य विद्यानन्दस्य विप्रस्य विशेषतो ज्योतिःशास्त्रे वैदग्ध्यमासीत्। तस्य च वार्द्धके यमुनाकलत्रकुक्षिजा सुता जाता। अथ प्रवयाः स विप्रः स्वयं तस्याः सुताया जन्मपत्रिकां विदधानः परिसंज्ञस्य सप्तमस्थानस्य निर्णयं चिन्तयन् पाणिग्रहणान्तरं षष्ठे मासे पतिमरणमज्ञासीत्। अहो! मम सुतायाः शैशवे वैधव्यमस्ति। किंच नूनं जन्मपत्रीस्थिता हि ग्रहा: प्राक्तनं दैवं सूचयन्ति, दैवं हि सर्वत्र बलवत्तरम् । यतः
यद्भग्नं धनुरीश्वरस्य शिशुना यज्जामदग्न्यो जित
स्त्यक्ता येन गुरोगिरा वसुमती बद्धो यदम्भोनिधिः । १. AH | कूटैः पित्तलदीनारैभृतामेकां वासिनीकां त्वं गृहाण, तस्या उपरिभागे चैकं कनकदीनारस्त्वया रक्षणीयः, ततो या स्नुषा - मु. ॥ २. जरठ - वृद्ध ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org