________________
२३६
श्री कथारत्नाकरे
श्री हेमविजयरचिते आचत्वरं चाऽनुगम्य, पर्व मित्रे गते सति । दध्यौ पुरोधा दुष्प्राप-रोधा व्यसनवारिधेः ॥ २३ ॥ मया ययोरुपकृतं, परिणामस्तयोरयम्। तद्भवाम्यधुना दीनः, कस्याऽहं पारिपार्श्वकः ॥ २४॥ अथ प्रणाममित्रस्य, यामि मित्रस्य सन्निधौ । तत्रापि नास्ति प्रत्याशा, प्रीतिस्तस्मिंश्च वाङ्मयी ॥२५॥
यद्वा विकल्पैः पर्याप्त-माप्त: सोप्यस्ति मे मनाक् ।
प्रेक्षे तमपि कस्यापि, कोऽपि स्यादुपकारकृत् ॥ २६ ॥ इति प्रणाममित्रस्य, मित्रस्य सदनं ययौ। सोऽथाभ्यागतमात्रं त-मभ्युदस्थात्कृताञ्जलिः ॥ २७॥ उवाच च स्वागतं वः, किमवस्था तवेदृशी। प्रयोजनं मया किं वो, ब्रूथ यत्करवाण्यहम् ॥ २८॥ मा भैषीरेष ते पृष्ठि-रक्षोऽहं मयि जीवति । न कश्चिदीश्वरः कर्तुं त्वद्रोम्णोऽपि हि विप्रियम् ॥ २९ ॥ पृष्ठोत्तंसिततूणीरो-ऽधिज्यीकृतशरासनः। प्रणाममित्रोऽग्रे चक्रे, निःशङ्कस्तं पुरोहितम् ॥ ३० ॥ ययौ पुरोहितस्तेन, सह स्थानं समीहितम्। अन्वभूच्च निराशङ्क-स्तत्र वैषयिकं सुखम् ॥३१॥ अत्र चोपनयो जीवः, सोमदत्तस्य सन्निभः । नित्यमित्रस्य मित्रस्य, तुल्यो भवति विग्रहः ॥३२॥ विग्रहोऽयं कर्मराज-कृतायां मरणापदि। सत्कृतोऽपि हि जीवेन, सह नैति मनागपि ॥ ३३ ॥ पर्वमित्रसमानाश्च, सर्वे स्वजनबान्धवाः । श्मशानचत्वरं गत्वा, निवर्तन्ते हि तेऽखिलाः ॥ ३४॥ प्रणाममित्रसदृशो, धर्मः शर्मनिबन्धनम् । यः परत्राऽपि जीवेन, गच्छता सह गच्छति ॥ ३५ ॥ ॥ इति धर्मोद्यमे मित्रत्रयकथा ॥ २०९॥
॥२१०॥ मित्रमतिविषये सुवर्णकारखेमाकथा ॥ आपद्वारिधौ पतितस्य प्राणिनो मित्रमेव तरण्डायते, यतःपापान्निवारयति योजयते हिताय, गुह्यं निगूहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १॥
अपि च
सन्मित्रधीमित्रमपास्तदुःखं, करोति किं कल्पलतेव नैव ।।
यत्स्वर्णकृत्कल्पितकूटनाण-प्रपञ्चतः श्रेष्ठ्यजनिष्ट तुष्टः ॥ २॥ तथाहि-वसन्तपुरे धनस्य श्रेष्ठिनः श्रीमतीकुक्षिजन्मानः सूर-पूर-धीर-वीरनामानश्चत्वारस्तनुजन्मानः । अन्यदा श्रीमत्यां दिवं गतायां ते चत्वारोऽपि सकलत्राः पुत्राः पृथग् जाताः ।
धन-धान्य-सुवर्ण-रूप्य-द्विपदादि सर्वं गृहपरिग्रहं विभज्य समाददानैस्तैः पितुः स्वस्वगृहे भोजनवारक: प्रतिष्ठितः । पुत्राधीनधनः स धनोऽपि वार्धकेऽनया रीत्या भुञ्जानः परस्परमीापराभिः स्नुषाभिः साधारणत्वेनाऽनुपचरितो मज्जन-भोजना-ऽऽसन-शयनादिसौष्ठवरहितः श्रेष्ठी काममसुखवानासीत् । एवं च तमसुखिनमाकर्ण्य शैशवसुहृत्खेमाख्यः सुवर्णकृत्तस्य समाधि प्रष्टुं तद् गृहं समेतः । ज्ञातवेष्ठिसर्ववृत्तान्तः स सुवर्णकृत्तमाह, हे सुहत्त्वया सुन्दरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org