________________
२३५
तरङ्ग ९/ कथा २०९
॥ २०९॥ धर्मोद्यमे मित्रत्यकथा ॥ सर्वत्र धर्म एव हि पुंसां सर्वसम्पत्तिनिदानं, यतःधर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो-विद्या-र्थसम्पत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गाऽपवर्गप्रदः ॥१॥
तेन मित्र-कलत्र-पुत्र-शरीर-परिवार-धन-धान्यादिमोहं हित्वा सुधीः सततं धर्ममेव करोति यतः
भूपापराधभयभीरुनरप्रणीतां, नित्योत्सवप्रणतिमित्रकथां निशम्य ।। कः कीर्तिमांस्तनुकुटुम्बरतिं विहाय, धर्मं न सारशिवशर्मकरं करोति ? ॥ २॥
तथाहिक्षितिप्रतिष्ठितपुरे, जितशत्रोर्महीपतेः । पुरोधाः सोमदत्तोऽभूत्, सर्वत्राऽप्यधिकारकृत् ॥३॥ तस्य मित्रमभूदेकं, नित्यमित्राऽभिधानतः । सर्वत्र मिलितः पान-खादनादिभिरैक्यवान् ॥ ४॥ पर्वमित्रोऽभिधानेन, तस्याभूदपरः सुहृत् । आगतेषूत्सवेष्वेव, सन्मान्यो नाऽन्यदा पुनः ॥५॥ प्रणाममित्रनामाभूत्, सुहृत्तस्य तृतीयकः। यथादर्शनमालाप-मात्रोपकृतिभाजनम् ॥ ६॥ पुरोधसोऽन्यदा तस्य, क्वाप्याऽऽगसि समागते । कुपितस्तं न्यजिघृक्षद्, भूपतिश्चण्डशासनः ॥७॥ विज्ञाय तदभिप्राय, रात्रावेव पुरोहितः। मित्रस्य नित्यमित्रस्य, सदने दैन्यभाग् ययौ ॥ ८॥ ममाऽद्य रुष्टो राजेति, कथयित्वा पुरोहितः । तमूचे त्वद्गृहे मित्र!, गमयाम्यशुभां दशाम् ॥९॥ हे मित्र! ज्ञायते मित्र-मापत्काले ह्यपस्थिते। स्वगृहे गोपयित्वा मां, तन्मैत्रीं चरितार्थय ॥१०॥ नित्यमित्रो जगादैवं, मैत्री सम्प्रति नाऽऽवयोः । तावदेवाऽऽवयोमैत्री, यावद्राजभयं न हि ॥ ११ ॥ त्वं ममाप्यापदे राज-दूषितो मद्गृहे वसन् । ऊर्णायुं ज्वलदूर्णं हि, क्षिपेत्को नाम वेश्मनि ? ॥१२॥ तवैकस्य कृते नाह-मात्मानं सकुटुम्बकम् । अनर्थे पातयिष्यामि, व्रजाऽन्यत्राऽस्तु ते शिवम् ॥१३॥ एवं च नित्यमित्रेण, सोमदत्तोऽपमानितः । पर्वमित्रस्य मित्रस्य, त्वरितं सदनं ययौ ॥ १४ ॥ राजाऽप्रसादवृत्तान्तं, पर्वमित्रस्य स द्विजः । तथैव कथयामास, तदाश्रयकृताऽऽशयः ॥ १५ ॥ पर्वमित्रोऽपि तत्पर्व-मैत्र्या निष्क्रयकाम्यया। महत्या प्रतिपत्त्या तं, ददर्शेदमुवाच च ॥ १६ ॥ त्वया पर्वस्वनेकेषु, तैस्तैः सम्भाषणादिभिः । स्नेहप्रकारैर्मत्प्राणा, अपि क्रीताः सखे ! ध्रुवम् ॥१७॥ न भवामि तव भ्रात-र्यदि व्यसनभागहम्। कौलीनं मे कुलीनस्य, तदानीमुपतिष्ठते ॥ १८॥ किन्तु त्वत्प्रीतिविवशो-ऽनर्थमप्यात्मनः सहे । कुटुम्बमपि मेऽनर्थं, गच्छेदिति सुदुस्सहम् ॥१९॥ कुटुम्बमपि मे प्रेयः, प्रेयांस्त्वमपि हे सखे! । किं करोमि द्विधाचित्त, इतो व्याघ्र इतस्तटी ॥ २० ॥ डिम्भरूपैरहं ह्यस्मि, सकीटकपलाशवत् । तस्मात्तेभ्योऽनुकम्पस्व, स्वस्ति तेऽन्यत्र गम्यताम् ॥२१॥ सत्कृत्यापि हि तेनैवं, पुरोधाः स निराकृतः । निर्ययौ तद्गृहादैवे, दुष्टे पुत्रोऽपि दुष्यति ॥ २२॥ १. तुल्यप्रायं परिशिष्टपर्वणि सर्ग ३, पत्र १०७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org