SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३४ श्री कथारत्नाकरे श्री हेमविजयरचिते ॥२०७॥ शयन विज्ञाने चन्द्रसेनकथा ॥ __ अथाऽन्येद्युस्तृतीयस्य चन्द्रसेनस्य शय्याकौशलं जिज्ञासु पस्तमाह, हे भद्र ! अस्मिन् पल्यङ्केऽस्यां च तूलिकायां सुप्तोऽहं शोभनं निद्रासुखं न लभे, वपुरपाटवं च बहु प्राप्नोमि, दुःस्वप्नांश्च भूरि पश्यामीति किं कारणम्? इति पृष्टः स प्रोचे, हे देव! तावदहमत्र शये, पश्चात्तत्कारणं कथयिष्यामि। राज्ञा तथा कृते स तस्मात्पर्यङ्कात्सद्य एवोत्थाय बहिरागत्य राजानमूचे, हे स्वामिन्नस्मिन् पल्यङ्के काष्ठदोषोऽस्ति, काष्ठदोषो यथा खट्वां जीवाकुलां ह्रस्वां, भग्नकाष्ठां मलीमसाम् ।। प्रतिपादाङ्कितां वह्नि-दारुजातां च सन्त्यजेत् ॥ १॥ शयनासनयोः काष्ठ-माचतुर्योगतः शुभम् । पञ्चकाष्ठादियोगे तु, नाशः स्वस्य कुलस्य च ॥ २॥ अस्यां तूलिकायां च शूकरवालोऽस्ति, तेनाऽत्र शयने सुखं न स्यात्, किं बहुना? ममाप्यस्यां तूलिकायां सुप्तस्य कुपितकामिनीव क्षणमात्रमपि निद्रा नैति स्म। ___ कथमनेन काष्ठदोषः सूक्ष्मतमकर्पासपक्ष्मपेशलायां तूलिकायां च वालो ज्ञात:? इति ध्यात्वा सूत्रधारतो दारुनिर्णयं तूलिकारूततश्च शूकरचिकुरनिर्णयं कृत्वा, अहो! अस्य शयनकौशलमिति विस्मितेन गुणज्ञेन राज्ञा अयमपि सत्कृतः कामं प्रसिद्धोऽभूत्। ॥ इति शयनविज्ञाने चन्द्रसेनकथा ॥ २०७॥ ॥२०८॥ मनुष्यगुणज्ञाने गुणरत्नकथा ॥ अथैकदा मनुष्याणामन्तर्बहिर्गुणज्ञानविज्ञस्य गुणरत्नस्य वैदग्ध्यमवगन्तुमनाः स राजा तमाह, हे भद्र! भृशं सुभगाऽसौ मम सुभगानामराज्ञी प्राणेभ्योऽप्यतिवल्लभा प्रतिवर्षप्रसविनी तेन मम सम्भोगसुखाऽन्तरायो अस्तीति किं कारणं ? इति श्रुत्वा स जगाद, हे देव! त्वं मम जनकः, इयं तव राज्ञी च मे जननी, किञ्चैकशोऽसौ स्नाना-ऽञ्जन-वसन-ताम्बूल-कुसुमकनकभूषणादिभूषिता निशि रहसि ममाभ्यर्णेऽभ्येति तदाहमस्या: स्वरूपं सम्यग् वच्मि । कौतुकिना राज्ञा तथाकृते तामागच्छन्तीमालोक्य सोऽपि भुजङ्ग्या इव तस्यास्त्रस्तस्त्वरितं बहिरेत्य राजानमवादीत्, हे देवाऽस्या: शैशवे माता मृता, ततोऽसावजादुग्धेन वृद्धिं नीता, तेनैषा प्रतिवर्ष प्रसविनी। किञ्चाऽस्याः शरीरमुखजातेन वातेन सोढुमशक्येन सर्वतः प्रसारिणा दुरामोदेन ज्ञातं, यद्बाल्ये बाढमजापयोऽनया पीतम् । राजाऽपि पट्टराज्ञीपितृगृहाद् बाल्ये मातृमरणमजापयःपानं च सम्यगवगम्य विशेषतस्तुष्टो नरपरीक्षापरीक्षकमुख्यस्य अस्य विशेषतः प्रसादं विहितवान् ॥ इति मनुष्यगुणज्ञाने गुणरत्नकथा ॥ २०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy