________________
२३३
तरङ्ग ९/ कथा २०५/२०६ समुपेयिवांसः। कस्यां कलायां युष्माकं कौशलमिति व्याहृतास्ते प्रोचिरे, हे देव! क्रमेण तुरङ्गम-भोजन-शयन-नरज्ञानभाजो वयमिति ब्रूवाणास्ते राज्ञा सेवकत्वेन रक्षिताः ।
एकदा तेष्वेकं हयज्ञानिनं राजा व्याजहार, हे भद्र! मम मन्दुरायाममी सुन्दरा बलवत्तरजनकजाताः कुलीनाः समानपोषिताः सहजा इव समानवयसोऽपिः केचिद्वाजिनः पञ्चस्वपि धारामुख्यासु गतिषु मन्दायन्ते, केचिच्च न मन्दायते, किमत्र निदानमिति पृष्टः सोऽभाषिष्ट, हे देव! तावत् तानहं पश्यामि, तदनु च कारणं वक्ष्ये। तेषु वीक्षितेषु सोऽवोचत्, हे देव! तेषु कैश्चित्तुरङ्गमैर्महिषीणां दुग्धं पीतमस्ति, कैश्चिच्च गवामिति तत्कृतोऽयममीषां गतिविशेषः । कथं तद् ज्ञायते ? इति पृष्टः सोऽवादीत्, भृशं भ्रामयित्वा भ्रामयित्वा जलपानार्थं तटाके मोच्याः, यथाऽमीषां व्यक्तिं विदधामीति श्रुत्वा राज्ञा तथैव विहितम्।
__ हे देव! ये हयाः पयः पीत्वा तत्रैव पयसि पतन्ति स्म, तैः शैशवे माहिषं क्षीरं पीतं, ये च जलं पीत्वा त्वरितं बहिराययुस्तैर्गवां पयः पीतम्। राजापि मूलत: किशोरपरिचारकेभ्योऽमुं वृत्तान्तं ज्ञात्वा तं च हयलक्षणविचक्षणं मत्बा बाढं बहुमन्यते स्म। ॥ इति हयपरीक्षाज्ञाने रूपचन्द्रकथा ॥२०५॥
॥२०६॥ भोजनशाने रूपसेनकथा ॥ अन्येधुर्द्वितीयस्य रूपसेनस्य भुक्तिकौशलं दिक्षुः मापस्तं भोजनार्थमुपवेश्य कनकपट्टे सरत्नकच्चोलके मणिस्थाले सतैलां कोद्रवक्षुद्रधान्यपूपिकां पत्रशाकं च परिवेषयामास । रूपसेनोऽप्यासनस्थालाऽनुचितं भोजनं वीक्ष्य तां पूपिकां पाणौ निधायोत्कटिकीभूय बुभुजे। तस्यैतत्कौशलं वीक्ष्य चमत्कृतो राजापि तमित्यप्राक्षीत्, हे भद्र! अभ्यर्णवर्तिनः शालिग्रामस्य शालितण्डुलानाशैशवादद्ययावद् भुञ्जानस्य ममाऽजीर्ण-पित्त-वात-नैर्बल्य-कार्य प्रभृतिरोगलेशोऽपि नासीत्, अस्मिन् वर्षे तु तानेव तण्डुलान् भुञ्जानस्य मम भूयांसो रोगाः सञ्जाताः, तत्र किं कारणम् ? ।
__इत्याकर्ण्य सोऽवोचत्, तांस्तण्डुलान् जग्ध्वा तन्निदानं वक्ष्ये, द्वितीयेऽहनि योग्यस्थले परिवेषितांस्तांस्तण्डुलान् भोक्तुं हस्तेनाऽऽदायाऽभुक्त एवोदस्थात् । पृष्टश्च सोऽभाषिष्ट, हे राजन्! यत्र क्षेत्रेऽमी तण्डुला निष्पन्नास्तत्र ग्रीष्मे पानीयमध्ये चैकः करभो मृतोऽस्ति, तेनाऽमी तण्डुला रोगहेतवो जाताः, राजापि क्षेत्रस्वामिनो मूलतस्तण्डुलवपनक्षेत्रस्वरूपं सम्यग् ज्ञात्वा तच्चातुरीचमत्कृतो भोजनकलादक्षं तं विशेषतः प्रसादपात्रं व्यधात्। ॥ इति भोजनज्ञाने रूपसेनकथा ॥ २०६॥ १. कनकाडणिकायां AHDP ॥ २. - तन्दु AHDP एवमग्रेऽपि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org