________________
२३२ श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥ २०४॥ कपटे शेखरसुवर्णकारकथा ॥ सुधियां दम्भस्य पारं न कोऽपि याति, यतः
यान् वञ्चयन्ति धीमन्तः, साऽपराधान् सृजन्ति तान् ।
यत्स्वर्णकृल्ललौ हारं, भूपोऽभूच्चाऽपराधवान् ॥ १ ॥ तथाहि- सङ्कलसरग्रामे महसेनो नृपः, तत्र च पटु-कपटपटीयान् सुधीशेखरः शेखरो नाम सुवर्णकारः। एकदा राज्ञा बहुमूल्य-मनोज्ञमणिमयो हाटक-जटितो हारस्तेनैव सुवर्णकारेण कारयितुमारब्ध। स शेखरो दिवा राज्ञोऽग्रतस्तं हारं घटयति, नक्तं च काचकृत्रिममणिमयं भारकुटजटितं हारं स्वौकसि करोति। राज्ञो हारघटनाऽवसरे दम्भवान् स सुवर्णकारश्छलान्नीवे मांसं मुमोच, तन्मांसपिण्डं च प्रत्यहं शकुनिका जग्राह। एवं तत्र राजहारः स्वौकसि स्वहारश्च, द्वावपि सदृशौ हारौ षण्मासैः पूर्णौ बभूवतुः । प्रान्तेऽहनि च पयःपूर्णे घटे स्वहारं निधाय तं घटं चाऽऽदाय स्वर्णकृद् भूपाऽऽलये प्राप्तः, अथ राज्ञो हारं गैरिकेण रक्तं कृत्वा, तत्र घटे च मुक्त्वा सुवर्णकृत्तत्स्थाने स्वहारं च निष्कास्य राज्ञः पश्यतो मांसस्थाने नीरो मुमोच। अथ सा शकुनिकापि पूर्ववन्मांसलम्पटा मांसपिण्डमिव तं राजहारं लात्वोड्डीय चाऽऽकाशे दवीयसा ययौ।
अथ सुवर्णकृदपि दूरं गतां तां विलोक्य कपटेन भूरीण्यश्रूणि मुञ्चन् स्वमूर्धानं मेदिन्यामाहन्ति स्म, उवाच च हे देव! हे देव! प्रभूतप्रयासलभ्यं मम हारघटनमूल्यं तुष्टिदानं चाऽपि निष्फलीभूतमिति विलपन् मुहुर्मुहुर्भूमौ पपात। तं च तादृशं खेदं कुर्वाणं रनिर्वण्य भूपः प्राह, हे भद्र! खेदं मा कुरु, ममैवायमपराधः, यदसौ हारो मयैव साधु न रक्षितः, ममैव चाऽऽलस्यं यदीदृशं रत्नवस्तु मत्करादनश्यत् । इत्याधुक्त्वा राज्ञा दत्तं हारघटनमूल्यं तं च सहारं घटमादाय स शेखरो निजं गृहं गतः ॥ इति कपटे शेखरसुवर्णकारकथा ॥ २०४॥
॥२०५॥ हयपरीक्षाज्ञाने रूपचन्द्रकथा ॥ ज्ञानं हि सर्वश्रियां मूलं, यतःज्ञानं स्यात्कुमतान्धकारतरणिर्ज्ञानं जगल्लोचनं, ज्ञानं नीतितरङ्गिणीकुलगिरिर्ज्ञानं कषायापहम्। ज्ञानं निर्वृतिवश्यमन्त्रममलं ज्ञानं मन:पावनं, ज्ञानं स्वर्गगतिप्रयाणपटहो ज्ञानं निदानं श्रियाम् ॥ १ ॥ किं बहुना ? स्वल्पमपि ज्ञानं महत्त्वं यच्छति, यतः
सुशिक्षितोऽल्पोऽपि कलाविलासः, पुंसां प्रदत्ते महिमानमुच्चैः।
न किं चतुर्णां हय-भुक्ति-शय्या-नृज्ञानभाजामजनिष्ट मानः ॥ २॥ तथाहि- सुन्दरपुरे नगरे नरसुन्दरस्य राज्ञः सभायां रूपचन्द्र-रूपसेन-चन्द्रसेनगुणरत्ननामानश्चत्वारः सुन्दराकारा नरा आशीर्वाद [दत्त्वा] सेवार्थिनो वयमिति च वदन्तः १. D। मारकत° P। पित्तल' मु. ॥ २. PD। निवार्य - मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org