________________
तरङ्ग ९/ कथा २०३
२३१ ___ इति नीतिशास्त्रं मत्वा मन्त्रिणा स पुरोहितः स्वगृहे रहसि रक्षितः अन्यदा राजसुतः पापर्द्धयै शूकरमनुव्रजन् दूरमरण्यं गतः । सायं सरसि जलं पीत्वा निशि व्याघ्रभिया तरोरुपरि तस्थौ; अथ तद्वासिना वंटवासिना गृहीतेन कपिनाऽसौ राजसूः पूर्वं स्वोत्सङ्गे शायितः, पश्चात्तस्योत्सङ्गे स कपिः शेते स्म।
दैवात्तत्राऽऽगतस्य क्षुधातस्य व्याघ्रस्य वचसा स कपि: कुमारेणाऽधो मुक्तः व्याघ्रमुखे पतितः राजसुतस्याऽसमञ्जसं चरित्रं वीक्ष्य हसित्वा व्याघ्रस्य मुखानिर्गत्य रुदन् स व्याघेण पृष्टः प्राहनिजजातिं परित्यज्य, परजातिषु ये रताः । तानहं रोदिमि व्याघ्र!, कथं ते भाविनो जडाः ॥७॥
__ अथ लज्जितः कुमारस्तेन वटवासिनाऽधिष्ठितो ग्रहिलो जातः, सर्वत्र 'विसेमिरा' इत्यक्षरचतुष्टयं पठन् तुरङ्गपदानुसारेण [तं वनगतं] ज्ञात्वा राज्ञा गृहमानीतः, प्रभूतैर्मन्त्रयन्त्र-तन्त्रप्रयोगैर्गुणमज्ञात्वा राज्ञा स शारदानन्दः स्मृतः, सकलकलासु कुशलोऽनन्यसामान्यसौजन्ययुतः पुरोहितः क्वेति खेदं बिभ्रता भूभृता यः कोऽपि मत्सुतं समाधिभाजं करोति, तस्मै राज्यार्धं ददामि इति पटहोद्घोषणं कारितं श्रुत्वा मन्त्रिणोक्तं, हे देवाऽत्रार्थे मम सुता निपुणाऽस्ति, तत् श्रुत्वा ससुतो राजा मन्त्रिगृहं प्राप्तः, तत्र च जवनिकाऽन्तरितः सर्वकलाविशारद शारदानन्दो बालस्त्रीस्वरेण जगौविश्वासप्रतिपन्नानां, वञ्चने का विदग्धता ?। अङ्कमारुह्य सुप्तानां, हन्तुः किं नाम पौरुषम् ? ॥८॥
इत्याकर्ण्य कुमारेणाऽऽद्याऽक्षरं मुमुचे। सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे। ब्रह्महा मुच्यते पापै-मित्रद्रोही न मुच्यते ॥ ९॥
इति श्रुत्वा तेन द्वितीयमक्षरं मुक्तम्।। मित्रद्रोही कृतघ्रश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यान्ति, यावच्चन्द्र-दिवाकरौ॥ १० ॥
इति निशम्य स तृतीयमक्षरं मुमोच। राजंस्त्वं राजपुत्रस्य, यदि कल्याणमिच्छसि। देहि दानं सुपात्रेभ्यो, गृही दानेन शुध्यति ॥ ११ ॥
इति श्रुत्वा स तुर्यमक्षरमत्यजत् । विजयपालोऽथ सुस्थोऽजनि, ऊचे च वनसम्भवं व्याघ्रादिविलसितम् । तदनन्तरं राजा स्माहग्रामे वससि हे बाले!, वनस्थं चरितं खलु । कपि-व्याघ्र-मनुष्याणां, कथं जानासि पुत्रिके !? ॥१२॥
अथ पुरोहितः स्वकीयेनैव स्वरेण राज्ञः स्वान्तःशल्यमुद्दिधीर्षुरूचेदेवगुर्वोः प्रसादेन, जिह्वाग्रे मे सरस्वती। तेनाहं नृप जानामि, भानुमत्यास्तिलं यथा ॥ १३॥
___ ततः पुरोहित-राजानौ मिलितौ मिथः सन्तुष्टौ च ॥ इति यथास्थितकथनेऽपि कस्याप्यनर्थः स्यादित्यर्थे शारदानन्दपुरोहितकथा ॥ २०३॥ १. यक्षेण ॥ २. भानुमतीतिलकं यथा AHD ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org