________________
२३० श्री कथारत्नाकरे
श्री हेमविजयरचिते त्वमागतोऽसीति कर्णे प्रविश्य स भूतस्तमभिदधे। अथ सद्यः समुत्पन्नमतिर्जयत इत्यब्रवीत्, रे भूत ! रे मित्र! नश्य! सा वइजी मम स्त्री समागतास्तीति मित्रस्य कथयितुमिहागतोऽस्मीति। तद्वचनं श्रुत्वा स भूतः काकनाशमनश्यत्। जयतोऽपि सार्थवाहाद्भरि धनं लेभे ॥ इति स्त्रीपराभवे वइजीकुटुम्बिनीकथा ॥ २०२॥
॥२०३॥ यथास्थितकथने शारदानन्दपुरोहितकथा ॥ मूर्खाणां प्रभूणामपि पुरो यथास्थितं न वाच्यं, यथास्थितकथनेनाऽपि मूर्खाः पापा एव स्युः, यतः
अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं, ब्रह्मापि नरं न रञ्जयति ॥ १ ॥ अपि च
यथास्थितं नैव निवेदनीयं, पुरो जडानां स्वहितैषिमुख्यैः ।
तिलं वदन् भानुमतीभगस्थं, पुरोहितोऽनर्थमवाप येन ॥ २॥ तथाहि- विशालायां नगर्यां नन्दो राजा, विजयपालः पुत्रः, बहुश्रुतनामा मन्त्री, शारदानन्दः पुरोहितः, भानुमती च राज्ञी। राजा तस्यां भृशमासक्तः सभायामपि तामभ्यर्णे स्थापयति। किं बहुना ? आसने शयने याने, मजने जल्पनेऽशने। गाने पानेऽर्जनस्थाने, नाऽमुञ्चन्महिषीं नृपः ॥ ३ ॥ वैद्यो गुरुश्च मन्त्री च, यस्य राज्ञः प्रियंवदाः । शरीर-धर्म-कोशेभ्यः, क्षिप्रं स परिहीयते ॥ ४॥
इति मत्वा स्वस्वामिहितैषी मन्त्री प्रोचे, हे देव! देव्याः सर्वदा सर्वत्राऽन्तिकेऽवस्थानमनुचितं, यतःअत्यासन्ना विनाशाय, दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन, राज-वह्नि-गुरु-स्त्रियः ॥५॥
अतो राज्ञीरूपं चित्रस्थं कारय तच्च सभायां पार्श्वे स्थापयेति श्रुत्वा राजापि चित्रस्थं राज्ञीरूपं कारयित्वा पुरोहितस्य दर्शयामास।
शारदानन्दपुरोहितोऽपि विस्मृतनीतिवचाः स्वज्ञानकौशलज्ञापनार्थं प्रोचे, हे वसुमतीनाथ! राझ्या वामोरुप्रदेशे तिलको विस्मृतः, इमं तिलकमहं वेद्मि राज्ञी वा, कथमयम्? नूनं राश्या सममस्य सम्बन्धोऽस्तीति कुविकल्पेनाऽसौ राजा मन्त्रिणमाह, पुरोहितो मारणीय इति, मन्त्री दध्यौ
सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥ ६॥ १. तुला-उपदेशप्रासादे व्या. १३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org