________________
॥ ९ ॥ नवमस्तरङ्गः ॥
॥ २०२॥ स्त्रीपराभवे वइजीकुटुम्बिनीकथा ॥ कलत्रकृतकलहपराभवो हि पुंसां भृशोद्वेगनिदानं यतः - माठो धोरी ठोठ गुरु, कूड़ ते खारुं नीर । ग्रामि कुठाकुर घरि कुघरा णी ] पंचइ दहइ सरीर ॥ १ ॥ किं बहुना ? प्रातिवेश्मीभूतभूतानामपि स्त्रीकलहभयं भूरि भवति, यतः - कुस्त्री कलेः पराभूतिः, सुराणामपि दुस्सहा ।
-
नश्य रे भूत साऽऽयाता, वैजीत्याकर्ण्य सोऽगमत् ॥ २ ॥
तथाहि - भाणभाटके ग्रामे जयताभिधः कुटुम्बिकः, तस्य च कामं कठोरा, व्याघ्रीव घोरा, कुरूपा दुष्टस्वरूपा कलहकारिणी दुराचारिणी कुलकलङ्कदायिनी सततं मायाविनी धनिकाद्यस्नेहिनी वइजीतिनामगेहिनी । सा परिवारेण पत्या च समं कामं कलहायते । किं बहुना ? पतिस्तु तां कलिकन्दलं मत्वा प्राणानपि परिजिहिर्षुरासीत् । यतः
आः किं सुन्दरि ! सुन्दरं न कुरुषे किं नो करोषि स्वयं, हा पापे ! प्रतिजल्पसि प्रतिदिनं पापस्त्वदीयः पिता । धिक् त्वां कोपमुखीमलीकमुखरस्त्वत्तोऽपि कः कोपनो ?, दम्पत्योरिति नित्यदन्तकलहः क्लेशार्थिनो: किं सुखम् ? ॥ ३ ॥ इत्थमहर्निशं मिथो मर्म-शंसनैर्विरूपशंसनैः कामं कलहायमानयोरनयोः कर्णशूलतुल्यैर्वचनैरुद्वेजितः निकटन्यग्रोधवासी ततः प्रणश्याऽन्यत्र पुरपरिसरे तटाक-तटतरु शाखामधितस्थौ । इतश्च जयतोऽपि तयोद्वेजितो निशि वेश्मतो निर्ययौ । यतः -
२२९
लुखु भोअण धूअ धण रंगह विण घरवास। माणस निमाया वाउए चिहुं केही आस ॥ ४ ॥ अथ भ्रमन् स तत्रैव तटाकतटतरोस्तले तस्थौ । अथ स भूतोऽपि तमुपलक्ष्य प्रातिवेश्मिकप्रीत्या प्रादुर्भूय च यथोचितस्वागतप्रश्रपूर्वमुपचरति स्म । अथ कस्त्वमिति जयतेनोक्तः स स्माह, हे मित्र ! त्वन्निकटनिवासी भूतोऽहं त्वत्कलत्रकलिवचनैरुद्वेजितोऽत्र वसामि त्वां च तेन सत्कुर्वन्नस्मीति । किञ्चाऽत्र रममाणां राजपुत्रीमहं गृह्णन्नस्मि, सा च त्वत्करस्पर्शमात्रेण सज्जीभविष्यति, तुष्टश्च राजा तव भूरि धनं दास्यतीत्यभिधाय स सुरस्तत्र क्रीडन्तीं राजपुत्रीं जग्राह । यो राजसुतां सज्जीकरोति स कामितं धनं प्राप्नोतीति पटहं स्पृष्ट्वा तथैव च तां सज्जीकृत्य नृपदत्तं घनं धनं च प्राप्य जयतः सुखी जातः ।
अन्यदा तत्रैव प्रदेशे रममाणं रमणीयरूपं सुरूपनामसार्थवाहसुतं तेनैव भूतेन गृहीतं ज्ञात्वा तथैव पटूकर्तुमागतं जयतं [प्रति भूतो ब्रूते, अस्याऽहं न मोक्ष्यामीति, तेन ] किमर्थमत्र १. न्यग्रोधवासी = यक्षः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org