SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२७ तरङ्ग ८/ कथा २००/२०१ छायां कर्तुं पथि विटपिनामञ्जलिः केन बद्धो, जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ ६॥ अथ परोपकारपुण्यात्मा स लता-तरुत्वक्प्रभृतिभिर्विनिर्मित-महारज्जूपायेन व्याघ्रादीस्त्रीननुक्रमेणोद्धृत्य चतुर्थं सुवर्णकारमुद्दिधिर्युरयं कपिना प्रोचे, हे नरोत्तम! असौ सुवर्णकारस्तेन कृतघ्स्योपकारो नोचितः, अयं हि नाऽऽत्मीयः, यतः अक्ष अग्नि असपति असिधार, वेश्या वनिता सलिल सुनार । इहनो नवि कीजइ वीसास, सोए वरसे नहि सहवास ॥ ७॥ पासा वेसा असि जल, ठग ठक्कुर सोनार । एता न होए आपणा, मंकड बटुअ बिडाल ॥८॥ एवं तेन वारितोपि परोपकार-रसिकोऽसौ सुवर्णकारमप्युद्दधार। हे उपकारकारिन् ! त्वं कादम्बरी पुरीमागच्छेरित्यभिधाय ते स्वं स्वं स्थानं जग्मुः। अथ कादम्बरीपुरीपरिसरे समायातं तं सारकमुपलक्ष्य व्याघ्रः प्रत्युपचिकीर्षुस्तत्र रममाणं राजतनुजन्मानं निहत्य बहुमूल्यानि तदाभरणानि तस्मै दत्त्वाऽऽत्मानं चाऽनृणीकृत्य स्वयं कानने ययौ। एवमुपलक्ष्य बहुफलपुष्प-पत्रादिना कपिनापि सत्कृतोऽसौ कादम्बरीपुरी प्राविशत् । तत्र च तेन सुवर्णकारेण स उपलक्षितो निवेशितश्च स्वहट्टे। ततस्तेन विप्रेण राजपुत्रा-भरणानि विक्रयाय तस्मै दत्तानि । ततः सुवर्णकृतापि राजनामाऽङ्कितानि तानि भूषणानि राजपुत्रस्य ज्ञात्वा राज्ञो दर्शितानि। राज्ञापि पुत्रहन्ताऽसौ पापाऽऽत्मा वधार्थं मातङ्गानामर्पितो वधभूमौ नीयमानोऽसावध्वनि गच्छन् कृतज्ञेन तेन भुजङ्गेन ददृशे। अहो! ममोपकारिणोऽमुष्य पुण्याऽऽत्मनो दुर्दशा पतितास्ति, तेनास्मै प्रत्युपकारं कृत्वाहमनृणीभवामीति मत्वा तत्र पार्श्वे क्रीडन्ती राजदुहिता तेनाऽहिना दष्टा। नाग-मन्त्रप्रयोगतोऽस्या राजदुहितुर्मुखेऽवतीर्णोऽसौ सर्प इत्यवादीत्, यदसौ द्विजन्मैनां जीवापयिष्यति नाऽन्य इति, तस्य पाणिस्पर्शमात्रेण सा जीविता। अतिप्रियायाः स्वपुत्र्या जीवातुमिव जीवितप्रदं विप्रं राजा सच्चकार। किञ्चेमं वृत्तान्तं मूलतः श्रुत्वा कुपितो भूपस्तं सुवर्णकारं देशत्यागमकारयत्। ॥ इति कृतघ्नविषये सुवर्णकारकथा ॥ २००॥ ||२०१॥ भाग्ये दामोदरविप्रकथा । देव-दानव-मानवेभ्योऽपि दैवं बलवत्तरं, यतः वैदेहीदयितेऽपि दुष्टहृदयः पार्थेऽप्यनर्थप्रदो। 'जीमूतेऽपि यथोचितव्यवहृतिः कर्णेऽपि कर्णेजपः । भीमो भीमसुतापंतावपि हरिश्चन्द्रेऽपि रौद्राशयः । शक्रेऽपि श्रितवक्रिमा हतविधिर्यस्तस्य केऽमी वयम् ? ॥१॥ १. विशेषार्थं द्रष्टव्यं नागानन्द नाटकम् ॥ २. PD | "पिता” मु.। भीमसुतापति = नलराजा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy