________________
२२६
श्री कथारत्नाकरे
श्री हेमविजयरचिते भगवतो महादेवस्य चरित्रप्रादुर्भावप्रारम्भेऽपि यदीदृशं दानमसौ ददौ तदा पूर्णचरित्रकथनेऽयं किं दानं दास्यतीति ध्यात्वा स द्वितीयस्मिन्नहनि तथैवाऽऽगत्य तदेवाऽबीभणत् । तमप्यवसरं पुरोहितो दानेन भनक्ति स्म । तृतीयस्मिन्नप्यहनि तथैव जल्पनोत्सुकं तं महामूर्खमुख्यः स इदमवादीत्-रे ! रे ! पापिष्ठ ! दुष्ट ! त्वं किं कथयिष्यसि ? यथेच्छं ब्रूहि याहि, मया रजकौकसि करम्भो भुक्तोऽस्ति, अस्त्यन्यदपि किमपि तव कथनीयम् ? अथेति तदुक्तमाकर्ण्य सर्वेऽपि तं प्रकामं धिक्चक्रुः । हा हा! अनेन दुराचारेण सर्वेऽपि वयमुच्छिष्टाः कृताः, तदाकर्ण्य राज्ञापि विडम्ब्य पुरान्निष्कासितः स्वकीयमूर्खतादोषेण सर्वत्र दुःखभागासीत् । ॥ इति मूर्खचरित्रे भरटकनामविप्रकथा ॥ १९९ ॥
॥ २०० ॥ कृतघ्नविषये सुवर्णकारकथा ॥
ये कृतमुपकारं मन्यन्ते ते स्तोका एव, यतः -
न तं पश्यामि सौमित्रे!, कृते प्रतिकरोति यः । सर्वस्यापि कृतार्थस्य, मतिरन्या हि जायते ॥ १ ॥ अपि च
Jain Education International
न हि मे पर्वता भारा, न मे भाराश्च सागराः । कृतघ्नाश्च महाभारा, भारा विश्वासघातकाः ॥ २॥
किञ्च पशुभ्योऽपि ते नरा अधमा ये परोपकृतं न मन्यन्ते, यतः - विद्मः पशुभ्योऽप्यधमान्नरांस्तान् यैर्मन्यते नैव परोपकारः सन्मानितो व्याघ्र - कपि-द्विजिह्वैर्नीतो द्विजः स्वर्णकृता ह्यवस्थाम् ॥ ३॥
I
तथाहि - बहलसरग्रामवासी सरलाऽऽत्मा सारको नाम दुःस्थो द्विजः स्वोदरपूरणार्थम-क्षमो भिक्षार्थं नगरादौ भ्रमन्नरण्ये यममुखरूपे क्वापि कूपे पतितान् व्याघ्रकपि सर्प - नरान् वीक्षयामास शुश्राव च तेषामिति गिरं, हे नरशेखर ! हे पुरुषपुण्डरीक ! अस्मानस्याः क्लेशविपत्तितः समुद्धर वसुधाभरणभूतानां पुंसामयमध्वा, यतः -
विहलं जो अवलंबइ, आवइपडिअं च जो समुद्धर । सरणागयं च रक्खड़, तेहिं तेहिं अलंकिया पुहवी ॥ ४ ॥ गिरुआ सहजइ गुण करड़, कारण किंपि म जाण । करसण सींचइ सर भरइ, मेह न मग्गइ दाण ॥ ५ ॥ इति तेषां करुणस्वरमाकर्ण्य स तानुद्धर्तुं कूपोपकण्ठमाययौ । सन्तो हि परोपकारप्रह्नाः स्वयमेव स्युः, यतः -
कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानामभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोः ।
For Private & Personal Use Only
www.jainelibrary.org.