________________
तरङ्ग ८ / कथा १९९
रन्ध्राणि नीरन्ध्रजडत्वभाजः, प्रकाशयन्ति स्वयमेव मूर्खाः । यथाब्रवील्लोकपुरः करम्भं भुक्तं द्विजन्मौकसि धावकस्य ॥ ४ ॥ तथाहि — धणसारग्रामे भरटकनामा विप्रः पुत्रकलत्रादिरहितो दुर्भिक्षे भिक्षार्थं प्रतिगृहं भ्रमन् धूसरस्य रजकस्यौकसि सायं करम्भं भुक्तवान् ।
अन्यदा स्वग्रामतो निर्गत्य सर्वत्र ग्राम नगरपुरादौ पर्यटन् शुभभाग्योदयवशतः क्षितिप्रतिष्ठित पुरस्वामिनो नरचन्द्रस्य राज्ञः पुरोहितो जातः, गोविन्द इति नामान्तरेण स्वं नाम प्रकटीकृत्य स भरटको नरचन्द्रस्य राज्ञः प्रकामं प्रसादपात्रमासीत् । किं बहुना तत्कृतं सर्वमप्यसमञ्जसं समञ्जसं च राजा प्रमाणमेव मन्यते स्म । पुंसां हि भाग्यं स्थानान्तरितं यतः - गन्तव्यं नगरशतं, विज्ञानशतानि शिक्षितव्यानि ।
नरपतिशतं च सेव्यं, स्थानान्तरितानि भाग्यानि ॥ ५ ॥
अथान्यदा तत्र पुरे गीत-सङ्गीत-नृत्य- नटादिकलाकुशलः कुशलो नाम नटः समागात् । स च राज्ञः पुरः सुराणामपि विस्मयकरीं निजकलां दर्शयामास । परं तत्कलामपश्यन्निव राजा तस्मै किमपि दानं न दत्ते स्म । तदा चैकेन केनापि मध्यस्थेन पुंसा नटस्येत्यभिदधे ।
हे नटोत्तम ! उत्तरमारुतं विना घनाघन इव राजा पुरोहितदृशं विना तुभ्यं दानं न दास्यति, तेन तन्मनोरञ्जनाय तस्य पुरः स्वकलां दर्शय, येन तद्वचोभिर्भूपस्तुभ्यं प्रभूतं दानं यच्छतीति श्रुत्वा पुरोहितगृहे च गत्वा स कुशलः सकललोकपूरितायां तस्य पर्षदि विशेषतो विस्मयकारिणीं नानावेषहारिणीं नानापुरातनपुरुषचरित्रविस्तारिणीं पूर्वशास्त्राऽनुसारिणीं स्वकलामदर्शयत्, परं चित्रलिखित इव गोविन्दः किमपि न विवेद, न तुतोष, न जहर्ष च । स नटोऽपि चतुर्थे यामिनीयामे नृत्यं कुर्वन् खिन्नः सन्नीश्वरवेषेण नृत्यं चिकीर्षुरुपतस्थे ।
करकलितनरकपालः, कर-कर्ण-कण्ठ-कटी - प्रमुखावयवेषु यथोचितन्यस्तभुजङ्गभूषणकरालः, कण्ठकन्दलप्रलम्बितरुण्डमालः, स्फुरत्तेजस्तृतीयलोचनललितभालः, क्रोडीकृतकात्यायनीकायः, प्रकटितमहामायः, क्षरद्रुधिरबिन्दुकरम्बितकरिचर्मोद्दामप्रचुरतरभस्म भराभिरामः, पिङ्गतरविकटजटामुकुट, रिपुकुल-प्रतिकूल - त्रिशूलप्रमुखशस्त्रश्रेणिप्रकामोत्कटः, शिरोधृतसुरसरित्प्रवाहः, शारीरतेजः पराभूतसप्तवाहः, प्रोत्तुङ्गशृङ्गवरवृषभमध्यासितः, कर्पूरपूरकुन्द-कुमुदचन्द्र-चन्दनसूत्रितमहानटवेषः स नटो महानटभक्तस्य तस्य पुरोहितस्य मनस्तुष्ट्यै
२२५
इदमभणत्—
'अथ भरडयचरिअं पवक्खामि' इति श्रुत्वा माऽसौ पापो रजकगृहभुक्तकरम्भकरूपं मच्चरितं वदतु, इति च मत्वा स तदवसरभञ्जनार्थं प्रभूतं जातरूपादिदानं तस्मै ददौ । तद्दानं दृष्ट्वा सोऽस्तोकोऽपि सभालोको बहुधनादि ववर्ष । इदं दानं प्राप्य स इति दध्यौ, अहो ! भरटकस्य १. तुला भरटक द्वात्रिंशिका कथा ९ ॥ २. कात्यायनी पार्वती ॥
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org