________________
२२४ श्री कथारत्नाकरे
श्री हेमविजयरचिते राज्ञा प्रेषिताः प्रेष्याश्चतुरोऽपि मृतानुलूकान् सबाणानादाय समेताः, शब्धवेधितया मया हतान्मृतान् घूकान् पश्येति राज्ञीमभिधाय स्वयं स्वकलाकौशलमभीक्ष्णमस्तवीत् । एवं भृशं स्मयं कुर्वन्तं राजानं राज्ञी स्माह, हे नाथ! वनानां वनवह्निमिव गुणानां नाशं कुर्वाणमहङ्कारं मुञ्च, मुधा गर्व मा विधेहि, यतः
दिग्पालांश्चन्द्रमौलिर्वहति रविरयं वाहवैषम्यकष्टं, राहोः सातङ्कमिन्दुर्विचरति गरुडान्नागवर्गो बिभेति ॥ रत्नानां धाम सिन्धुस्त्रिदशपतिगिरौ स्वर्णमद्याऽपि यस्मात् ।
किं दत्तं रक्षितं वा किमुत जगत्यर्जितं येन गर्वः ॥ ३॥ किञ्च हे स्वामिन्नभ्यासेन सर्वमपि दुःसाध्यं सुसाध्यं भवतीत्यभिधाय बाढं बद्धपरिकरा सा राज्ञी तद्दिनप्रसूतमेकं करिबालमुत्पाटयामास। एवं प्रतिदिनं तया राज्योत्पाट्यमानः स करिशावः षोडशाब्दिक: समजनि। तादृशं च तं हस्तिनं यान्तं निरीक्ष्य राज्ञी राजानमूचे, हे स्वामिन्नस्ति कश्चिदेतादृशो भवद्राज्ये य एनं हस्तिनं स्वयमुत्पाटयति। नास्तीति राज्ञोदिते सन्नद्धबद्धकक्षया तया राज्या तद्दिनप्रसूत इव स करी स्वयमुदपाटि। अथाऽधिकतरं तत्कलाकौशलमालोक्य भृशं विस्मयमापन्नस्य राज्ञो राज्ञी स्वमभ्यासव्यतिकरमब्रवीद्। एवं तद्वचनौषधेन गर्वगदमपहृत्य राजाऽपि सर्वत्राऽभ्यासमेव मुख्यं मन्यमानो मेदिनीमवति स्म। ॥ इत्यभ्यासप्राधान्यार्थे कनकसेनाराज्ञीकथा ॥ १९८॥
॥ १९९॥ मूर्खचरित्रे भरटकनामविप्रकथा ॥ निरक्षरा हि नोपदेशाऽर्हाः, यतःउपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये। पयःपानं भुजङ्गानां, केवलं विषवृद्धये ॥ १॥ अपि च
जे कुग्गहगहिआणं, मूढाणं देइ धम्मउवएसं ।
सो चम्मासिअकुक्कर-वयणमि खवेइ कप्पूरं ॥२॥ किश्च बालिशविलसिते न काऽपि प्रतिक्रिया, यत:
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्याऽऽतपो, नागेन्द्रो निशिताऽङ्कशेन महता दण्डेन गो-गर्दभौ। व्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं,
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ३॥ अयशसां भाजनं हि मूर्खाः स्वयं रहसि विनिर्मितमनाचरणं स्वयमेव प्रकटयन्ति, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org