________________
२२३
तरङ्ग ८/ कथा १९७/१९८ तत्र च भोक्तुं परिवेषितानतिमनोहरान् सच्छिद्रान् वटकान् दृष्ट्वा 'छिद्रेष्वनर्था बहवो भवन्ति' इति पदानुसारतस्तान् वटकान् हित्वा तथैव क्षुधाऽऽत्तौ तौ पुरः प्रस्थितौ। अग्रे च पयःपूरप्लाविततरुस्तोमा महतीमेकां नदीं तौ प्रविष्टौ। तत्र च पूरे वहमानं यान्तं श्रीकण्ठं विलोक्य वैकुण्ठो दध्यौ, हरिहरि इति भूयो भूयो ब्रुवाणस्य-सहजसुभगवया मम सवयाअयं वहन् यातीति चिन्तयतस्तस्यैष शोकोऽस्मार्षीत्
सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः ।
___ अर्धेन कुरुते कार्य, सर्वनाशो हि दुस्सहः ॥ ३ ॥ इति पठितमातृमुखमुख्यो वैकुण्ठोऽकुण्ठेनाऽसिना तं श्रीकण्ठं द्विधाकृत्य तदर्धमादाय च नद्या बहिराययौ। एवमेतौ द्वावपि क्लेशभाजौ जातौ। ॥ इति लोकव्यवहारवैकल्ये द्वितीया विप्रपुत्रकथा ॥ १९७॥
॥ १९८॥ अभ्यासप्राधान्यार्थे कनकसेनाराज्ञीकथा ॥ सकलं गीतनृत्यचित्रकृत्त्वादिनानाकलाकलापकौशलमभ्यासवशात्सुलभं स्यात्। किं बहुना ? सर्वासामपि विद्यानां मूलमभ्यास एव, यतः
धणमूलं वावारो, मूलं रूवस्स जुव्वणं भणिअं ।
मूलं गुणाण विणओ, विजामूलं च अब्भासो ॥ १॥ किञ्चाऽभ्यासवशानरो दुःसाध्यमपि कार्यं साधयति, यतः
दुःसाध्यमभ्यासवशात्सुसाध्यं, जायेत पुंसां विहितोद्यमानाम् ।
क्ष्मापेन बाणैर्निहता निशाटाः, राज्या स्वयं पीलुरुदञ्चितश्च ॥ २॥ तथाहि- रामपुरे नाम पुरे दुर्गेशो नाम राजा, कनकसेनाभिधा च तस्य राज्ञी, तस्य राज्ञः सर्वास्वपि कलासु प्रावीण्ये सत्यपि पार्थस्येव विशेषतो धनु:कलाकौशलमासीत् । एकदा सुखसुप्तया राज्या प्रथमे यामिनीयामे कर्णकोटरे विषमिव कटु निशाटरटितमाकर्णयाऽहं बिभेमीति राज्ञोऽभाणि। शब्दवेधिबाणकलाकुशलो राजाऽपि तच्छब्दानुसारेण बाणं मुमोच।
तस्मिन्नेव स्थाने तथैव पुनरपि द्वितीये यामे घूकघूत्कारमाकर्ण्य राज्ञी राजानमवोचत् हे नाथ! व गता तव शब्दवेधिनी सायककला? सर्वं ज्ञातं, यदहं शब्दवेधीत्ययमाडम्बरः शारदीनघनगर्जितमिव मुधैव त्वया लोके विधीयते, यतोऽसौ घूको जीवन्नस्ति, भूयश्च रटतीति। राजाऽपि तद्वचनं निशम्य मनाग्मन्दाक्षमन्दोऽभूत्, तथा पुनरपि च राजा निशाटरटितमाश्रित्य मार्गणं मुमोच, पुनरपि तथैव तृतीये चतुर्थे च यामे तत्रैव तरौ कौशिकक्वणितमाकर्ण्य राज्या सस्मितमवनीपतिरभाणि, तद्वचोभिर्लज्जितेन राज्ञा तथैव बाणौ मुमुचाते। अथ प्रभाते बाणानानेतुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org