________________
२२२ श्री कथारत्नाकरे
श्री हेमविजयरचिते फल-त्रपुषी-कर्कटिका-सर्षप-जीवन्ती-तिबुकादीन् बहून् शाकादीन् दृष्ट्वेति चिन्तयाञ्चक्रे, अहो! अमीभिर्वात-पित्त-कफ-श्रेष्म-त्रिदोषादिमहारोगनिबन्धनैः शाकैरलम् ।
निम्बो वातहर: कलौ सुरतरु: शाखाप्रशाखाकुलः । पित्तघ्नः कृमिनाशनः कफहरो दुर्गन्धनिर्नाशनः । कुष्ठव्याधिविषापहो व्रणहरो द्राक्पाचनः शोधनो।
बालानां हितकारको विजयते निम्बाय तस्मै नमः ॥२॥ इति वैद्यकशास्त्राऽभिहितबहुगुणनिम्बतरुशाकमादायाऽऽययौ। एवमधीतशास्त्रा अपि लोकव्यवहारविकलाश्चत्वारोऽपि ते स्वस्वाऽर्थभ्रंशभाजो बभूवुः। ॥ इति लोकव्यवहारवैकल्ये चतुर्णां विप्राणां कथा ॥१९६॥
॥ १९७॥ लोकव्यवहारवैकल्ये द्वितीया विप्रपुत्रकथा ॥ अत्राऽर्थे पुनरप्येका कथा, यतः
अधीतशास्त्रा अपि लोकरीति--हीना न केऽनर्थमवाप्नुवन्ति ।
महाजनो येन गतेति वाक्यैः, कार्य सृजन्ताविव विप्रपुत्रौ ॥१॥ तथाहि- धारावासनगरे श्रीकण्ठ-वैकुण्ठनामानौ द्वौ विप्रपुत्रौ वसतः स्म। पठितनानावाङ्मयावपि पूर्वाऽपरशास्त्राऽर्थसम्बन्धविधुरौ लोकनीति-रीतिबठरौ तौ द्वावन्यदा चिन्तयाञ्चक्रतुः । परदेशपरिभ्रमणं विना प्रसिद्धिर्न स्यात्, यतः
जह गुणठाणं नाणं, नाणट्ठाणं च होइ जह विणओ ।
विणयस्स विबुहसंगो, तस्स ठाणं च परिब्भमणं ॥ २॥ इति निश्चित्य परदेशयियासया स्वपुरपरिसरे समेत्य पुरतः प्रतिष्ठाऽऽशया सुभाषितानि स्मरतः स्म। तदा चैकं कमपि मृतं नरं महाजनैः श्मशानभूमौ नीयमानं निरीक्ष्य 'महाजनो येन गतः स पन्था' इति पदं च स्मृत्वा तेषां पृष्ठतश्चलितौ तौ, तन्मृतकं च दग्ध्वा स्वस्थानं गतेषु लोकेषु तौ पठितमूों तत्रैव स्थितौ पुनरपि सुभाषितानि चिन्तयत: स्म।
तदा चैकं रासभं तत्र स्थितं विलोक्य 'राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः' इति पद्यं च स्मृत्वाऽऽवयोरिह स्थितत्वादयं बन्धुरिति तं रासभमादाय तौ पुरश्चेलतुः । अग्रे च भृशं सत्वरमायान्तमेकं करभं दृष्ट्वा 'धर्मस्य त्वरिता गतिः' इति तं करभं धर्मं मन्येते स्म। 'इष्टं धर्मे नियोजयेत्' इति च सुभाषितं स्मृत्वेति तौ चिन्तयतः स्म, बान्धवत्वादसौ खर इष्टः, सत्वरगतित्वादयं करभश्च धर्मः, तेनेष्टं धर्मे नियोजयेदिति तं खरं धर्मरूपे करभकण्ठे बद्ध्वा पुरश्चेलतुः। मध्याह्ने च क्षुधितौ तौ क्वाऽपि ग्रामे कस्याऽपि द्विजस्यौकसि तत्पितृ श्राद्धभोजने भोक्तुमुपविष्टौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org